पृष्ठम्:अलङ्कारमणिहारः (भागः ३).pdf/२१२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
200
अलंकारमणिहारे

रमणीयविच्छेदयुतामित्यर्थः । 'कृतयतिशोभाम्' इति तल्लक्षणे वक्ष्यमाणत्वात् । इमां सुगीतिं शोभनां गीतिं गीत्याख्यामार्यामित्यर्थः । विद्यां जानीयाम् । विदेर्लीङुत्तमैकवचनम् । अत्र--

लक्ष्मैतत्सप्तगणा गोपेता भवति नेह विषमे जः ।
षष्ठोयं न लघू वा प्रथमेऽर्धे नियतमार्यायाः ॥

इत्युक्तार्याप्रथमार्धलक्षणस्यैव उत्तरार्धेऽपि विद्यमानत्वात् ।

अर्याप्रथमदलोक्तं यदि कथमपि लक्षणं भवेदुभयोः ।
दलयोः कृतयतिशोभां तां गीतिं गीतवान् भुजङ्गेशः ॥

 इत्युक्तं गीतिलक्षणं सर्वमपि सुस्पष्टम् ॥

 अत्र श्रीलक्ष्मीवर्णनपरेण सुगीतिमिति पदेन अस्य वृत्तस्य गीतिनामतायाः भजमनसा इत्यादिना तद्गणनियमादीनां च सूच्यानामर्थानां सूचनमिति मुद्रालंकारः प्रकृताप्रकृतश्लेषोज्जीवितः । न चात्र प्रकृताप्रकृतश्लेष एव न मुद्रालंकार इति वाच्यं, श्लेषसद्भावेऽपि सूच्यार्थसूचनस्यापि स्फुटतया मुद्रालंकारस्य निरर्गलत्वात् । नाप्यस्य मुद्रालंकारस्य श्लेषतो विविक्तविषयदौर्लभ्यभ्रमः कार्यः, अनुपदमवे विविक्तस्य विषयस्य दर्शयिष्यमाणत्वात् । तस्मादत्र श्लेषमुद्रालंकारयोस्संकर एवेति दिक् ॥

 यद्यप्यत्रालंकारग्रन्थे वृत्तनाम्नोऽवश्यं नास्ति सूचनीयत्वं, तथाऽप्यस्य पद्यस्य एवंविधलक्षणाभिन्नलक्ष्यघटितच्छन्दश्शास्त्रमध्यपाठे तस्य सूचनीयत्वं संभवतीति लक्षणानुगतिः कार्या । अत एव--

सूच्यार्थसूचनं मुद्रा प्रकृतार्थपरैः पदैः ।
नित्यम्बगुर्वी तरुणी दृग्युग्मविपुला च सा ॥

 अत्र नायिकावर्णनपरेण युग्मविपुलापदने अस्यानुष्टुभो युग्मविपुलानामत्वरूपस्सूच्यार्थसूचनं मुद्रा । यद्यप्यत्र ग्रन्थे वृत्त-