पृष्ठम्:अलङ्कारमणिहारः (भागः ३).pdf/२११

विकिस्रोतः तः
Jump to navigation Jump to search
पुटमेतत् सुपुष्टितम्
199
मुद्रासरः (७६)

 गीतिवृत्तपक्षे तु-- यां गीतिं गोपेताः गसंज्ञकेन गुरुणा उपेताः युक्ताः अस्य अन्ते इत्येतदादिः अवसाने गुरुणा उपेता इत्यर्थः । ते च अनियताः क्रमनियमरहिताः यथायथं प्रयुक्ता इत्यर्थः ।

ज्ञेयास्सर्वादिमध्यान्तगुरवोऽत्र चतुष्कलाः ।
गणाश्चतुर्लघूपेताः पञ्चार्यादिषु संस्थिताः ॥

 इति सर्वादिमध्यान्तगुरूणां चतुर्लघूपेतानां चतुर्लघुरूपगणान्तरसहितानामनियमेनार्यावृत्तेषु प्रयोगस्यानुशासनात् । अत्र द्विगुरुक एको गणः । आदिमध्यान्तगुरवः भगणजगणसगणास्त्रयः चतुर्लघुक एक इत्येवं पञ्चगणा यथासंभवमार्यादिषु प्रयोज्या इति कारिकार्थः । ते च कतीत्यत्राह-- ऋषीति । ऋषिसंख्याका गणाः सप्तगणा इत्यर्थः । गोपेताश्च ते अनियतर्षिगणाश्चेति कर्मधारयः । ते च के इत्यत आह-- भजमनसा इति । भकारादिसंज्ञकाः । क्व च ते प्रयोज्या इत्यत आह-- पदोरिति । पदोः श्लोकचतुर्थांशयोः पूर्वोत्तरार्धरूपयोर्द्वर्योः पादयोरित्यर्थः । `पद्दन्' इति पादशब्दस्य पदादेशः । भजन्ते श्रयन्ते । अथ चतुष्कलानां गणानामनियमेन यथायथं प्राप्तौ नियमयति-- भृगुजेति । भृगुजः परशुरामः स च मत्स्यादिभगवदवतारेषु षष्ठतया गणितः । तेन प्रष्ठ इति लभ्यते । भृगुजः षष्ठः गणः जः जसंज्ञकः यस्यास्तां भृगुजगणजां जगणात्मकषष्ठगणामित्यर्थः । अनेन षष्ठेन जगणेन भाव्यमिति नियम उक्तः । अविषमजयां विषमे विषमांशे विषमगणस्थाने जं जगणं यातीति विषमजयाः यातेः क्विप् । सा न भवतीत्यविषमजया तां तथोक्तां प्रथमतृतीयादिविषमांशेषु जगणशून्यामित्यर्थः । अनेन विषमस्थानेषु जगणो न प्रयोज्य इति नियम उक्तः । यतिभिः विच्छेदैः 'विच्छेदो यतिसंज्ञकः' इत्यनुशासनात् । ईड्यां