पृष्ठम्:अलङ्कारमणिहारः (भागः ३).pdf/२०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
8
अलङ्कारमणिहारे

द्यमाना भाः यस्य अभाः सुष्ठु अभाः स्वभाः अतिवेलतेजोहीन इत्यर्थः । न हि सुरापस्य ब्रह्मतेजो भवेदिति भावः । मत्तश्चासौ स्वभावश्चेति विशेषणोभयपदकर्मधारयः । कुतोऽनयोर्वैषम्यमित्यत अह-- तदाकारेति । यत् यस्मात् अयं चरमनिर्दिष्टः काळीभक्तः तदाकारविप्रतीपः तदाकारस्य प्रथमनिर्दिष्टश्रीभक्ताकारस्य तदाचारस्येति यावत् विप्रतीपः प्रतिकूलः सदाचारवामाचारयोरतिविप्रकर्षादिति भावः । पक्षे-- अयं सुराप इति शब्दः तदाकारविप्रतीपः तस्य सुरपशब्दस्य आकारेण आवर्णेन मध्यस्थेनेति भावः । विप्रतीपः विरुद्धरूपः । मध्ये आवर्णसद्भावात्सुरपशब्दविरुद्धरूप इति भावः । एवं अयं मत्तस्वभावश्शब्दः तदाकारस्य भास्वत्तमशब्दस्वरूपस्य विप्रतीपः प्रतिलोमः । भास्वत्तम इति शब्द एव प्रातिलोम्येन दृष्टो मत्तस्वभा इति निष्पद्यत इत्यर्थोऽपि चमत्कारातिशयं पुष्णाति । अत्रापि शाब्द एव । पूर्वस्माद्वैलक्षण्यं तु स्फुटमेव ॥

 यथावा--

 अम्ब त्वदाश्रितानामितरेषामपि शरीरिणां भवति । विपुलैश्वर्यं विरलैश्वर्यं चात्रास्ति पुरत एव भिदा ॥ १४२१ ।।

 विपुलैश्वर्यं भूमीश्वरत्वं विरलैश्वर्यं अल्पविभवः । अत्र अनयोः त्वदाश्रितेतराश्रितयोः तद्विभवयोर्वा । पुरतः अग्रत एव भिदा भेदः अस्ति । स्पष्टमेव प्रकाशत इत्यर्थः । पक्षे अत्र विपुलैश्वर्यविरलैश्वर्यशब्दयोः पुरत एव पुवर्णरवर्णाभ्यामेव भिदेत्यर्थोऽपि चमत्कारी । अत्रापि शाब्द एव ॥