पृष्ठम्:अलङ्कारमणिहारः (भागः ३).pdf/१९३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
181
उल्लाससरः (७१)

अकर्मवश्यः मुक्त्यैश्वर्यभाक् भवेदित्यर्थः । किंच आदौ प्रथमं द्यवीश्वरोऽपि इन्द्रोभवन्नपि अद्य अधुना त्वया उपेक्षितश्चेत् वीश्वरः अनाथ एव स्यात् । त्वदीक्षणान्वयव्यतिरेकावेव ऐश्वर्यदारिद्र्यप्रयोजकाविति भावः । स्यादित्यत्र सकारस्य ‘अनचि च' इति वैकल्पिकं द्वित्वम् । पक्षे वीश्वरशब्दः आदौ प्रथमवर्णात्पूर्वं सद्यः द्यवर्णसहितश्चेत् द्यवीश्वर इति निष्पद्यते । न केवलमेतावदेव । आदौ द्यवीश्वरः द्यवीश्वरशब्दस्सन्नपि अद्यः द्यवर्णरहितः वीश्वर इति भवतीत्यर्थोऽपि चमत्कारी । अत्र लक्ष्मीकटाक्षस्य सानुग्रहत्वरूपगुणेन तदीक्षितस्य स्वाराज्यैश्वर्यलक्षणगुणः । तदुपेक्षणलक्षणदोषप्रयुक्तः इन्द्रस्यापि अनाथत्वरूपदोषश्चेत्युभयम् ॥

 यथावा--

 व्यासविभीषणबलिवत्त्वदुपगतौ नाथ वर्धते पूर्णायुः । पूर्णायुरप्यपगतावूर्णायुरिवेह वध्यते बत मनुजः ॥ १७११ ॥

 नाथ्यते आयुरारोग्यादिसर्वपुरुषार्थान् जनैरिति नाथः, तस्य संबुद्धिः हे नाथ! त्वदुपगतौ त्वच्छरणागतौ सत्यां व्यासविभीषणबलिवत् पूर्णायुस्सन् वर्धते ।

अश्वत्थामा बलिर्व्यासो हनुमांश्च विभीषणः ।
कृपः परशुरामश्च सप्तैते चिरजीविनः ॥

 इत्युक्तं तेषां चिरजीवित्वं भगवत्प्रपदनमहिम्नैवेति भावः । पूर्णायुरपि निमित्तान्तरेण पूर्णायुरपि अपगतौ त्वत्तो वैमुख्ये सति ऊर्णायुः मेष इव वध्यते हन्यते । दुर्गादिबलिप्रदैर्मांसार्थिभिर्द्वेषिभिर्वा जनैरिति शेषः । त्वद्वैमुख्यं ब्रह्मणोऽप्यायुर्भङ्गहेतुरिति