पृष्ठम्:अलङ्कारमणिहारः (भागः ३).pdf/१९२

विकिस्रोतः तः
Jump to navigation Jump to search
पुटमेतत् सुपुष्टितम्
180
अलङ्कारमणिहारे

भवतीत्यर्थः । ‘सारो बले स्थिरांशे च न्याय्ये क्लीबं वरे त्रिषु' इत्यमरः । पक्षे एषः सभास्तार इति शब्दः अतः अविद्यमानतकारस्सन् सभासार इति निष्पद्यते विपरीतत्वे त्वत्कटाक्षवैपरीत्ये विलोमतया पठने च रसाभासो भवेत् । अविद्यमानः भासः भासनं यस्य सः अभासः रसेन अभासः रसाभासः नीरस इत्यर्थः । यद्वा रसायां भुवि अभासः अप्रकाश इत्यर्थः । यद्वा अस्यते निरस्यत इत्यासः कर्मणि घञ् रसश्च आभा च रसाभे ताभ्यां निरस्त इत्यर्थः । पक्षे सभासारशब्दः रसाभास इति परिणमतीत्यर्थः । अत्र भगवत्कटाक्षस्य कृपार्द्रतागुणेन असभ्यस्यापि सभास्तारतादिगुणाधानं, तद्वैपरीत्येन सभासारस्यापि रसाभासत्वरूपदोषाधानं च ॥

 यथावा--

 सद्यस्त्वयेक्षितोऽग्रे स वीश्वरोऽपि द्यवीश्वरोऽम्ब भवेत् । आदौ द्यवीश्वरोऽपि ह्युपेक्षितो वीश्वरोद्यस्स्यात् ॥ १७१० ॥

 हे अम्ब! विगतः ईश्वरो यस्य सः वीश्वरः अनाथोऽपीत्यर्थः । त्वया अग्रे पुरस्तात् ईक्षितश्चेत् सः पुमान् सद्यः तत्क्षणमेव द्यवि दिवि द्योशब्दस्य सप्तम्येकवचनम् । ईश्वरः अधिनाथः भवेत् ‘स्वामीश्वराधिपति’ इत्यादिना ईश्वरशब्दयोगाद्द्योशब्दस्य सप्तमी । इन्द्रो भवेदित्यर्थः । यद्वा सद्य इत्यत्र सत् यः इति छेदः । यः त्वया सत् प्रशस्तं यथा स्यात्तथा ईक्षितः इति योजना । अन्यत्तुल्यम् । अथवा द्यवि 'त्रिपादस्यामृतं दिवि' इति श्रुतेः परमे व्योम्नि ईश्वरः ‘स स्वराड्भवति’ इत्युक्तरीत्या