पृष्ठम्:अलङ्कारमणिहारः (भागः ३).pdf/१९१

विकिस्रोतः तः
Jump to navigation Jump to search
पुटमेतत् सुपुष्टितम्
179
उल्लाससरः (७१)

 धरण्या धरणौ वा भास्वरः तेजस्वी सन् प्रभवेत् प्रभुर्भवेत् निस्स्वः दुर्गतस्सन् धरणिभारः भुवो भारभूत एव भवेत् । न च किंचिदपि प्रयोजनं तेन भवेदिति भावः । पक्षे धरणिभास्वरशब्दः निस्स्वः स्ववर्णरहितस्सन् धरणिभार इति निष्पन्नो भवेदित्यर्थश्चमत्कारी । अत्र भगवतोऽनुग्रहो गुणः तेन शरीरभृतो धरणिभास्वरप्रभुत्वरूपगुणाधानं पूर्वार्धे । तन्निग्रहो दोषः तेन तस्य निस्स्वतावाप्तिपूर्वकभूभारत्वरूपदोषाधानमुत्तरार्धे इत्युभावपि प्रकारौ दर्शिताविति पूर्वेभ्यो विच्छित्तिविशेषः । एवं प्रदर्शयिष्यमाणेष्वप्युदाहरणेषु ॥

 शर्वस्स्थाणुस्सन्नपि सर्वज्ञस्त्वत्कृपावशादासीत् । स्यादितरधा स पशुपः पतन्नधश्शीर्षमपि पशुप एव ॥ १७०८ ॥

 अत्र भगवत्कृपामहिमगुणेन स्थाणोरपि सर्वज्ञत्वरूपगुणः, तद्वैपरीत्येन दोषेण पशुपस्य पशुपत्वरूपदोषश्चाहित इत्युभयम् ॥

 यथावा--

 कृपया त्वयेक्षितो यदि भवत्यसभ्योऽपि खलु सभास्तारः । अत एष सभासारो विपरीतत्वे भवेद्रसाभासः ॥ १७०९ ॥

 हे भगवन् ! त्वया कृपया ईक्षितः दृष्टो यदि असभ्योऽपि सभानर्हः अनार्योऽपि 'माहाकुलकुलीनार्यसभ्यसज्जनसाधवः' इत्यमरः । सभास्तारः सभ्यो भवति खलु । अतः अस्मादेव कारणात् एषः सभासारः भवतीत्यनुषज्यते । सभायां श्रेष्ठो