पृष्ठम्:अलङ्कारमणिहारः (भागः ३).pdf/१९०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
178
अलङ्कारमणिहारे

 दण्डधरस्त्त्वमिति हरे चण्डकरादिस्स्वकृत्यमधिकुर्वन् । भद्राय भवति जगतां निद्रात्यलसे प्रभौ जनस्स्वैरम् ॥ १७०५ ॥

 प्रभौ अलसे सति जनः स्वैरं निद्रातीति योजना । अत्र भगवतो दण्डधरत्वसूचितक्रौर्यदोषेण चण्डकरादेः स्वस्वाधिकारनिर्वर्तनमूलकजगत्क्षेमनिष्पादनलक्षणगुणाधानम् । अयं च व्यतिरेकमुखप्रवृत्तेन तुरीयपादगतार्थान्तरन्यासेन समर्थितः । अत्र ‘भीषाऽस्माद्वातः पवते भीषोदेति सूर्यः’ इत्यादिश्रुत्यर्थोऽनुसंधेयः । इदं भगवतो दण्डधरत्वं क्रौर्यमिति लोकदृष्ट्योक्तम् । वस्तुतस्तु तस्यापि गुणत्वमेवेत्यभाषि भगवद्भाष्यकारैः । एवं सत्यन्यगुणेनान्यगुणाधानस्यैवोदाहरणं भविष्यति ॥

 यथावा--

 चक्रेण व्यलुनास्त्वं चैद्यस्य शिरोधरां सरोजाक्ष । किं छिन्नमस्य तावत्त्वत्सायुज्यं परं त्वनेनाप्तम् ॥ १७०६ ॥

 अत्र भगवतश्चक्रस्य चैद्यस्य शिरोधराच्छेदहेतुभूतक्रौर्यदोषेण तस्य तत्सायुज्यलाभरूपगुणाधानम् । इदं शुद्धम् ॥

 यथावा--

 त्वदनुग्रहस्य विषयश्शरीरभृद्धरणिभास्वरः प्रभवेत् । त्वन्निग्रहस्य विषयो निस्स्वोऽच्युत धरणिभार एव भवेत् ॥ १७०७ ॥