पृष्ठम्:अलङ्कारमणिहारः (भागः ३).pdf/१९

विकिस्रोतः तः
Jump to navigation Jump to search
पुटमेतत् सुपुष्टितम्
7
यथासङ्ख्यालङ्कारसरः (‌५२)

'पुष पुष्टौ’ ‘मुष स्तेये’ इमावपि क्रैयादिकावेव । अत्र प्रुष्णासीत्यादिक्रियाणां क्रमेण तृष्णादिष्वन्वयः । इह शाब्दः, असमस्तानामसमस्तैःक्रमेणान्वयात् ॥

 यथावा--

 नयनरुचा वदनरुचा कमलं विमलांशुबिम्बमपि कमले । नूनं जितं भवत्या जलं निविशते महाबिलं चापि ॥ १४१९ ॥

 महाबिलं महत्सुषिरं अन्तरिक्षंच । ‘मेघद्वारं महाबिलम्’ इत्यमरः । इदमपि शाब्दं उत्प्रेक्षागर्भं, पूर्वं तु शुद्धमिति विवेकः ॥

 यथावा--

 यौ श्रीकाळीभक्तौ सुरपोऽत्राद्यः परस्सुरापो भविता । भास्वत्तमोऽथ मत्तस्स्वभास्तदाकारविप्रतीपो यदयम् ॥ १४२० ॥

 यौ श्रीः लक्ष्मीः काळी दुर्गा तयोः भक्तौ उपासकौ, अत्र अनयोर्मध्ये, आद्यः श्रीभक्तः सुरान्पातीति सुरपः देवाधीशः तत्तुल्यो वा अत एव भास्वत्तमः अतिशयेन भास्वान् महातेजश्शाली च भविता । परः काळीभक्तस्तु सुरापः सुराणां देवानां नपातीत्यपः देवारक्षक इत्यर्थः । सुरां पिबतीति तथोक्तः मद्यप इति तत्त्वम् । काळिकोपासकानां वामाचारस्य प्रसिद्धत्वादिति भावः । क्रमेण ‘पा रक्षणे, पा पाने’ इति धात्वोः 'आतोऽनुपसर्गे' इति कः । अत एव मत्तः मदशाली । अवि-