पृष्ठम्:अलङ्कारमणिहारः (भागः ३).pdf/१८५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
173
उल्लाससरः (७१)

भावः भूत्वा; पक्षे अन्ते स्वचरमभागे प्रतीपा प्रतिलोमा वर्णगतिः वर्णयोः ककारतकारयोः स्थितिः यस्य तत्तथोक्तं भूत्वाऽपि । मरकतमिति पदं मरतकं भूत्वाऽपीत्यर्थः । हरौ भगवति रुच्या निरतिशयप्रीत्या ‘यमेवैष वृणुते' इत्युक्तरीत्या भगवत्कृतस्वविषयकप्रीत्या वा । पक्षे भगवत्तुल्यरुचा उपलक्षितमिति शेषः । स्वार्थतः स्वाभीप्सितनिश्श्रेयसरूपनिरतिशयपुरुषार्थात् न विभ्रष्टं न प्रच्युतं । किंतु साधितवदेवेति भावः । पक्षे स्वाभिधेयाद्गारुत्मतमणिलक्षणात् न विभ्रष्टं मरकतपदस्य यादृशार्थप्रत्यायकता मरतकमित्यस्यापि पदस्य तादृशार्थप्रत्यायकताया एव प्रसिद्धत्वान्न स्वार्थविभ्रंश इति भावः । अत्रापि पूर्वोदाहरणवदेव सर्वमनुसन्धेयम् ॥

 यथावा--

 आदिमवर्णत्रितयत्यक्तोऽपि त्वद्रुचेर्बलाढ्यतया । वर्णान्तरगोऽपि जहौ न स्वार्थं वारिवाहको भगवन् ॥ १६९७ ॥

हे भगवन्! वारिवाहकः अम्बुवाहः वारिवाहकशब्दश्च आदौ भवं आदिमं यत् वर्णत्रितयं ब्राह्मणादिवर्णत्रयं । पक्षे वारिवा इति वर्णत्रयं तेन त्यक्तोऽपि; त्वद्रुचेःत्वयि प्रीतिसद्भावाद्धेतोः त्वदनुग्रहसद्भावाद्वा । बलाढ्यतया विवेकादिसाधनसप्तकान्तर्गतानवसादलक्षणमनोबलवत्त्वेन ईदृशबलासद्भावे विवक्षितपुरुषार्थलाभायोगात् । यच्छ्रूयते 'नायमात्मा बलहीनेन लभ्यः' इतीति भावः । पक्षे । त्वद्रुचेः त्वत्तुल्यद्युतिसद्भावादित्यर्थः । यद्वा । त्वदभिप्रायानुरोधादित्यर्थः । बलाढ्यतया बला इति वर्णद्वययुक्ततया त्वदिच्छानुसारात्' ‘न गिरा गिरा, इति न्यायात् वारिवा