पृष्ठम्:अलङ्कारमणिहारः (भागः ३).pdf/१८३

विकिस्रोतः तः
Jump to navigation Jump to search
पुटमेतत् सुपुष्टितम्
171
उल्लाससरः (७१)

 पक्षे स्वां इन्प्रकृतिं इति छेदः । स्वां स्वकीयां इन्प्रकृतिं मत्वर्थीयेन इन्प्रत्ययेन युक्तां प्रकृतिंपक्षीति प्रकृतिं अजहदेव । इन्प्रत्ययान्तप्रकृतिकत्वात्तस्येति भावः । पक्षी पक्षीतिशब्दः सद्मान्तस्थानभाक् यतः इति छेदः । यतः यस्मात्कारणात् द्मावर्णेन सह वर्तत इति सद्मं अन्तस्स्थानं मध्यभागः तद्भजतीति तथोक्तः । ततः तस्मात्कारणात् पद्माक्षी भविष्यति । पद्माक्षीति निष्पत्स्यते । अत्र वक्तव्यं किं वक्तव्यप्रकिया सर्वाप्ऽयुक्तैव नान्यत्किंचिदवशिष्यत इति भावः । अत्र भगवन्मन्दिरमहिमगुणेन तन्निवासेन पक्षिणोऽपि भगवत्सारूप्यगुणाधानम् । अन्यत्सर्वं पूर्ववदेव ॥

 यथावा--

 आद्यमरत्वं गतमप्यथ चातितरान्तकत्वमाप्तमपि । हरितत्ववित्त्वभूम्ना तत्साधर्म्येण मरतकं भाति ॥ १६९५ ॥

 मरतकं गारुत्मतं मरतकपदं च, तयोस्तादात्म्यम् । आद्यमरत्वं पूर्वदेवत्वं दैत्यत्वमित्यर्थः । गतमपि कर्मवशाद्वृत्रादिवदिति भावः । अथ च अनन्तरं च अतितरान्तकत्वं अतिवेलजगन्नाशकत्वं दैत्यत्वानुगुणमिति भावः । आप्तमपि । पक्षे आद्यौ प्राथमिकौ मरौ मवर्णरेफौ यस्य तत् आद्यमरं तस्य भावः तत्त्वं गतं अथ च मरवर्णानन्तरं च अतितरां अतिवेलं तकौ तकारककारौ यस्य तत् अतितरांतकं तस्य भावं आप्तमित्यर्थः । मरतकशब्दस्यैवं वर्णचतुष्टयात्मकत्वादित्यभिप्रायः । हरेः भगवतः तत्वं याथात्म्यं वेत्तीति वा हरिरूपं परं तत्वं वेत्तीति वा हरितत्ववित् तस्य भावः हरितत्त्ववित्त्वं तस्य भूम्ना तत्साधर्म्येण भाति ।