पृष्ठम्:अलङ्कारमणिहारः (भागः ३).pdf/१८२

विकिस्रोतः तः
Jump to navigation Jump to search
पुटमेतत् सुपुष्टितम्
170
अलंकारमणिहारे

च' इत्याद्युक्तनिषिद्धाचारवान् भवन्नपि यःकश्चित् भवता क्रमेण यादृच्छिकादिसुकृतपरिपाकक्रमेण तद्वशादिति यावत् । दृष्टश्चेत् वैश्वानरः अग्निः तद्वच्छुचिस्तेजस्वी च भवति, पक्षे आदौ वैश्वा इति वर्णाभ्यामनुगतः अग्र्यौ नरौ नकाररेफौ यस्य स तथोक्तः । यःकश्चिच्छब्दः क्रमेण उक्तवर्णानुपूर्व्येण दृष्टश्चेत् वैश्वानर एव भ ति नान्यशब्द इत्यर्थः । अत्रापि भगवन्महिमातिशयगुणेन तद्दृष्टिवशादशुचेरपि शुचित्वगुणाधानम् । एकस्मिन्नाधारे अशुचित्वशुचित्वरूपानेकाधेयवर्णनात्मकपर्यायेण संभावनेन च संकीर्णत्वं विशेषः ॥

 यथावा--

 अजहत्स्वामिन् प्रकृतिं सद्मान्तस्स्थानभाग्यतो भवतः । अपि पक्षी पद्माक्षीभविष्यति ततः किमत्र वक्तव्यम् ॥ १६९४ ॥

 हे स्वामिन्! प्रकृतिं स्वस्वभावं अजहदेव स्वप्रकृत्यनुगुणं चेष्टमान एव न तूपासनादि कुर्वन्निति भावः । भगवतः सद्मनः दिव्यालयस्य अन्तः स्थानं स्थितिः तद्रूपं यत् भाग्यं भागधेयं तस्मात् सद्मान्तस्स्थानभाग्यतः सार्वविभक्तिकस्तसिः । पक्ष्यपि विहगोऽपि तिर्यग्जन्तुरपीति भावः । पद्माक्षो भगवान् अपद्माक्षः पद्माक्षस्संपत्स्यते पद्माक्षीभविष्यति । च्विः । उपायाभिमुख्यगन्धस्यापि दवीयान् पक्षिमात्रोऽपि भवद्दिव्यालयवासभाग्यवशात् 'ब्रह्म वेद ब्रह्मैव भवति’ इत्युक्तरीत्या ब्रह्मविदिव भगवत्सारूप्ययोग्यो भविष्यतीति भावः । ततः तदपेक्षया वक्तव्यं किमस्ति कथनीयं तन्माहात्म्यं ततोऽपि नान्यदवशिष्यत इति भावः ॥