मन्तव्यम् । विषमासंस्पृष्टस्याप्येतद्विषयस्यानुपदमेव दर्शयिष्यमाणत्वात् ॥
यथावा--
भात्येवमेव भानुर्भार्यासुखमेवमेव विन्देयम् । ध्यायत्येवं कोके सायं हन्ताम्बुधौ ममज्ज रविः ॥
अत्र हि नास्ति विषमप्रभेदस्य विषयः, इष्टार्थं कारणप्रयोगाभावात्, इष्टार्थप्रयुक्तकारणेन सह विरुद्धार्थस्य उत्पाद्योत्पादकभावलक्षणसंसर्गस्याननुरूपत्वं हि तच्छरीरम् । तस्माद्विषादनमेवात्राप्रस्तुतप्रशंसाघटकतयाऽवस्थितम् । अत्र ह्यप्रस्तुतश्चक्रवाकवृत्तान्तः अतिमात्रानित्यमैहिकविभवं नित्यतमं प्रत्येत्य शश्वततमनिश्श्रेयससाम्राज्यसाधनोपेक्षया समयमतिवाहयति तावदेव प्राप्ततादृशविभवभ्रंशे कस्मिंश्चिदधन्ये पर्यवस्यतीत्यप्रस्तुतप्रशंसा ॥
यथावा--
कृतमेतदिदं कार्यं कृताकृतमिदं सुखाय भविता नः । इति विमृशन्नेव जनस्त्वद्विमुखो हन्त मृत्युना ह्रियते ॥ १६८६ ॥
अत्राभीष्टसुखविरूद्धमृत्युहरणरूपार्थलाभः । अत्र--
इदं कृतमिदं सज्जमिदमन्यत्कृताकृतम् । |
इति महाभारतवचनार्थोऽनुसंहितः ॥
द्वितीयप्रकारो यथा--
उपगूहति नन्दसुते त्रपया पिहिताननाऽपि