पृष्ठम्:अलङ्कारमणिहारः (भागः ३).pdf/१७३

विकिस्रोतः तः
Jump to navigation Jump to search
पुटमेतत् सुपुष्टितम्
161
प्रहर्षणसरः (६९)

 हे शौरे! तव सखाकुचेल इति भावः । त्वदनुग्रहात् तनीयश्श्रीर्वा स्याम् ‘यावद्भ्रियेत जठरम्' इत्याद्युक्तरीत्या अत्यल्पतरसंपद्वा स्यां न तु तदतिशयलिप्सुरिति भावः । इति त्वामुपेत्य ततः अनन्तरं त्वया अपचितः पूजितस्सन् ‘पूजा नमस्याऽपचितिः' इत्यमरः । बह्वी तपनीयश्रीः सुवर्णसंपत् यस्य स तथोक्तः अभूत् । बतेति विस्मये हर्षे वा । किंच अल्पतरतेजा अपि वा भवेयमित्यभिलषमाणः बहुतपनीयश्श्रीः अतिशयितभानुसंबन्धिश्रीरभूदित्यर्थोऽप्युपस्कार्यः । पक्षे तनीयश्श्रीशब्दः त्वया ततः तकारादनन्तरमिति यावत् । पचित इति च्छेदः । पकारेण चितः घटितस्सन् । बहु इति भिन्नं पदम् । बहु यथा स्यात्तथा प्राग्विद्यमानवर्णापेक्षयाऽधिकैकवर्णतयेति भावः । तपनीयश्रीरिति शब्दोऽभूत् । अत्र कुचेलस्यापेक्षितादधिकार्थलाभो वर्णितः ॥

 भूवासवत्त्वमीप्सोस्त्वद्विजयात्कोसलेन्द्र विद्विषतः । स्वर्वासवत्त्वमददा भवतः किं ब्रूमहे महौदार्यम् ॥ १६८० ॥

 भूवासवत्त्वं भूदेवेन्द्रन्वं, स्वः स्वर्गे वासवत्त्वं महेन्द्रत्वं वासोऽस्यास्तीति वासवान् तस्य भावं च । अददाः सर्वानरातीन् संहृतवानिति वस्तुस्थितिः । अत्रापि पूर्ववदेव ॥

 यथावा--

 जगतां जननि भवत्यास्तौल्यं प्रेप्सुः कचश्रियामेकः । तप्त्वाऽधःकृतशीर्षं कथमपि लभते स्म मेचकः कचताम् ॥ १६८१ ॥

 ALANKARA--III.
21