पृष्ठम्:अलङ्कारमणिहारः (भागः ३).pdf/१७२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
160
अलंकारमणिहारे

 इच्छाविषयभूतादर्थादधिकार्थस्य तद्गोचरयत्नं विनैव सिद्धिर्द्वितीयं प्रहर्षणम् ॥

 यथा--

 दृष्टा चेन्नन्दभुवा हृष्टा स्यामिति चिरादभिलषन्ती । लेभे गोपकिशोरी रहसि तदीयाङ्कपाळिसर्वस्वम् ॥ १६७७ ॥

 अत्र भगवत्कर्तृकात्मकर्मकदर्शनमात्रेण स्वहर्षं संभावयमानाया गोपकिशोर्यास्ततोऽप्यतिवेलातिशायिपरिरम्भसर्वस्वसाम्राज्यरूपाधिकार्थलाभः ॥

 यथावा--

 संसारचारजनितां संसादयितुं विहस्ततां ये त्वाम् । श्रीनाथाकलयन्ते ते नाम कृतास्त्वया चतुर्हस्ताः ॥ १६७८ ॥

 विहस्ततां विक्लवतां ‘विहस्तव्याकुलौ समौ' इत्यमरः । पक्षे विगतौ हस्तौ यस्य सः विहस्तः तस्य भावम् । यथा- कथंचिद्धस्तवत्तासंपादनाय भगवन्तमुपासीनानां जनानां चतुर्हस्ततावाप्तिरूपाधिकार्थलाभो विहस्तशब्दगतश्लेषनिर्व्यूढ इति पूर्वस्माद्विशेषः ॥

 यथावा--

 त्वदनुग्रहात्तनीयश्श्रीर्वा स्यामित्युपेत्य शौरे त्वाम् । बत बहुतपनीयश्श्रीरभूत्तव सखा ततस्त्वयाऽपचितः ॥ १६७९ ॥