पृष्ठम्:अलङ्कारमणिहारः (भागः ३).pdf/१६४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

अथ मिथ्याध्यवसितिसरः (६७)


मिथ्यार्थोऽन्यः कल्पतेचेत्किंचिन्मिथ्यात्वसिद्वये ।
मिथ्याध्यवसितिर्नाम साऽलंकृतिरुदाहृता ॥

 कस्यचिदर्थस्य मिथ्यात्वसिद्ध्यर्थं मिथ्याभूतार्थान्तरकल्पनं मिथ्याध्यवसितिर्नामालंकारः ॥

 यथावा--

 गणनातिशायिघृणिना पयोजसुहृदा त्रयोदशेन शुचीनाम् । सन्तमसं हन्त हृदभ्यन्तरगं त्वज्जुषां निरासि मुरारे ॥ १६६७ ॥

 हे मुरारे! गणनातिशायिनो घृणयः किरणाः यस्य तेन तथोक्तेन त्रयोदशेन पयोजसुहृदा सहस्रमात्रसंख्याककिरणतया द्वात्दशात्मतया च प्रथिताद्भास्वतोऽन्येन भास्करेणेत्यर्थः । त्वज्जुषां त्वयि प्रतिरूपापन्नध्यानभाजां न्यासविद्यया त्वां सेवमानानां वा ‘जुषी प्रीतिसेवनयोः' इत्यस्मात्क्विप् । शुचीनां 'क्षेत्रज्ञस्येश्वरज्ञप्नाद्विशुद्धिः परमा मता’ इत्याद्युक्तसर्वप्रकारविशुद्धिभाजामिस्यर्थः । अग्नीनामित्यप्युपस्कार्यम् । हृदभ्यन्तरगं अन्तरं संतमसं तमोगुणरूपं महत्तिमिरं निरासि निरस्यत । अत्र भगवत्प्रपन्नशुचिहृत्तमसोऽत्यन्तासंभावितस्य निष्पत्तये त्रयोदशभास्करकर्तृकनिरासोऽत्यन्तासंभावितो निबद्धः । इदं श्लेषसंकीर्णम् ॥