पृष्ठम्:अलङ्कारमणिहारः (भागः ३).pdf/१५९

विकिस्रोतः तः
Jump to navigation Jump to search
पुटमेतत् सुपुष्टितम्
147
संभावनसरः (६६)

द्विद्वेषसंभावनं सालबिडालतासंभावनसाधनम् । विच्छित्तिविशेषस्तु व्यक्त एव ॥

 यथावा--

 हृत्वाऽच्युत तव कान्तिं क्वचन ग्रावणि निलीनमसिताभ्रम् । दर्शयति कान्तिमत्त्वं यदि तर्हि बुधैः क्रियेत तद्भस्म ॥ १६६० ॥

 हे अच्युत! असिताभ्रं नीलजलदः तव कान्तिं हृत्वा क्वचन कस्मिंचित् ग्रावणि शैले । पक्षे प्रस्तरे ‘ग्रावाणौ शैलपाषाणौ' इत्यमरः । विलीनं सत् कान्तिमत्त्वं स्वस्य द्युतिमत्त्वं पक्षे कः कवर्णः अन्तिमो यस्य तत्तथोक्तं तस्य भावस्तत्त्वम् । अस्मिन् पक्षे अन्तिमत्त्वमित्यत्र तकारस्य ‘अनचि च' इति द्वित्वम् । दर्शयति यदि तर्हि बुधैः धर्मशास्त्रजैः आयुर्वेदज्ञैश्च तत् अभ्रकं भस्म क्रियेत जगदीश्वरप्रशस्तवस्तुहरणदुरितापनोदनानुरूपभस्मान्तप्रायश्चित्तगोचरीक्रियेतेति भावः । पक्षे भसितं क्रियेत । कृष्णाभ्रकस्यैव भस्मविषये ज्यायस्त्वस्मरणादिति भावः । अत्रासिताभ्रस्य क्वचिद्ग्रावणि कान्तिमत्वप्रकाशनतर्कणं भस्मीकरणतर्कणं प्रति साधनम् । चमत्कारातिशयस्तु पूर्ववदेव ॥

 यथावा--

 रघुवीर महादेवो महाहवो यदि भवेत्त्वयि कदाचित् । सत्यं स देहभिदया विकृतस्स्यात्त्वं हि दलिततद्धन्वा ॥ १६६१ ॥

 हे रघुवीर! महादेवः मृत्युंजयः त्वयि विषये कदाचत् महाहवः प्रवर्तितप्रबलरणो यदि सः महादेवः देहस्य शरीरस्य भिदया