पृष्ठम्:अलङ्कारमणिहारः (भागः ३).pdf/१५८

विकिस्रोतः तः
Jump to navigation Jump to search
पुटमेतत् सुपुष्टितम्
146
अलङ्कारमणिहारे

 देवतरुः अचेतन इति भावः । जातु कदाचित् तावकीनं औदार्यं जनीयाद्यदि । चेतनकार्यस्याचेतनेऽसंभवाद्यदीति संभावना । सः देवतरुः तदात्वे तत्काल एव देवदारुतां भद्रदारुनामक्षुद्रतरुविशेषतां यायात् यत्रक्वाप्यरण्ये देवदारुतरुवदौदार्यप्रथागन्धदवीयस्तया संकुचितो वर्तेतेति भावः । पक्षे देवतरु देवतरुशब्दः तदात्वे तकारस्य दावर्णत्वे तकारमपनीय दाकारे पठिते इति यावत् । देवदारुतां यायात् देवदारुशब्दो भवेदिति भावः । अत्र देवतरोर्भगवदौदार्यज्ञानसंभावनं तद्देवदारुतासंभावनसाधनम् ॥

 यथावा--

 त्वां तत्त्वेन वृषाचलकान्त बिडौजा द्विषीत यदि जातु । स भवेदेव गतौजास्सालो भूत्वाऽन्ततो बिडालोऽपि ॥ १६५९ ॥

 हे वृषाचलकान्त! बिडौजाः इन्द्रोऽपि भ्रातृत्वेन व्यपदेश्योऽपि किमुतान्य इति भावः । जातु तत्त्वेन वस्तुतः न त्वारोपितकोपेन त्वां द्विषीत यदि तदा तर्हि बिडौजा गतौजास्सन् भगवद्विद्वेषमहिम्ना निस्तेजास्सन् सालः वृक्षो भूत्वा स्थावरजन्मलब्ध्वेत्यर्थः । अन्ततः पर्यवसाने बिडालोपि भवेत् । स्थावरजन्मना व्यपनीतकियत्पापस्तिर्यग्जन्माऽपि लभेतेति भावः । भगवद्विद्वेषफलमीदृगित्यभिप्रायः । पक्षे बिडौजा इति शब्दः गताः ओ जा इत्याकारकवर्णौ यस्य स तथोक्तः । अन्ततः चरमभागे ओ जा इत्याकारकवर्णापगमे परिशिष्टस्य बिडेत्याकारकवर्णस्य चरमभागे इत्यर्थः । सालः आल इत्याकारकवर्णसमुदयसहितसन् बिडाल इति निष्पद्यत इत्यर्थः । अत्र विडौजसो भगव-