पृष्ठम्:अलङ्कारमणिहारः (भागः ३).pdf/१५४

विकिस्रोतः तः
Jump to navigation Jump to search
पुटमेतत् सुपुष्टितम्
142
अलङ्कारमणिहारे

प्राचीनकृतप्रौढोक्त्युदाहरणे यथा तमालेषु श्यामलिमातिशयार्थं श्यामलिमाधिकरणीभूतकालिन्दीसंबन्ध उद्भाव्यते तथा हेयगुणेषु मिथ्यात्वातिशयसिद्धये मिथ्यात्वाधिकरणैकोनविंशसंख्याकपुराणादेसंबन्ध इत्यस्यापि सुवचत्वात् । यदिच मिथ्याध्यवसितिरेवालंकारान्तरं स्यात् सत्याध्यवसितिरपि तथा स्यादित्यापादयता रसगङ्गाधरकृता--

हरिश्चन्द्रेण संजप्ताः प्रगीता धर्मसूनुना ।
खेलन्ति निगमोत्सङ्गे मातर्गङ्गे गुणास्तव ॥

इत्याद्युदाहृत्य अत्र हरिश्चन्द्रयुधिष्ठिरनिगमसंबन्धाद्गुणानां सत्यत्वं प्रतीयते । एवं--

मध्ये सुधासमुद्रस्य सितामयगृहोदरे ।
पूर्णेन्दुविष्टरे देव स्थातुं योग्यास्तवोक्तयः ॥

 अत्रापि सुधासमुद्रादिसंबन्धात् उक्तिषु माधुर्यातिशयः प्रतीयमानः कस्यालङ्कारस्य गोचरः स्यात् । अतोऽलंकारान्तरं स्यात् । मम तु प्रौढोक्त्यैव गतार्थतेत्युक्तम् ॥

इत्यलंकारमणिहारे प्रौढोक्तिसरः पञ्चषष्टितमः.


अथ संभावनासरः (६६)


संभावनं स्याद्यद्येवं स्यादित्यूहोऽन्यसिद्धये ॥

 यत्र किंचित्तर्कणमन्यत्तर्कणसाधनं तत्संभावनम् ॥

 यथा--

 मम कोटिवदनता स्याद्यदि पुरुषायुषमिदं च कोटिगुणम् । ईशीय हरे स्तोतुं कोटितमांशं त्वदेकगुणभूम्नः ॥ १६५० ॥