पृष्ठम्:अलङ्कारमणिहारः (भागः ३).pdf/१५१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
139
विकस्वरालंकारसरः (६४)

 यथा--

 न्यस्तभरं त्वयि मामिह न स्तोकं वाऽपि कर्म बाधेत । किमपि विबाधितुमीष्टे न भाग्यवन्तं यथा रविं ध्वान्तम् ॥ १६४३ ॥

 किमपि वस्तु, इदं कर्तृ । ध्वान्तं तमः, इदमपि कर्तृ । इदमुपमानरीत्या विशेषान्तरन्यसने उदाहरणम् ॥

 अर्थान्तरन्यासविधया यथा--

 सत्स्वपि शिखरिषु बहुषु श्रीवास त्वं श्रितोऽसि वृषशैलम् । न हि सर्वे भाग्यभृतो मिषत्सु विबुधेष्ववाप हि श्रीस्त्वाम् ॥ १६४४ ॥

 यथावा--

 कृपया राज्यं प्रादाः कपये महतां निरङ्कुशा हि कृपा । गोपस्याप्यच्युत तव जगदीशत्वं ददौ हि जलधिसुता ॥ १६४५ ॥

 अयमलंकारश्चन्द्रालोकानुयायिदीक्षितानुरोधेन दर्शितः । जगन्नाथादयस्तु-- प्रकृतविशेषस्य सामान्येन समर्थनादेकोऽर्थान्तरन्यासः । सामान्यस्य विशेषेण समर्थनादपर इति भेदद्वयसमावेशात्मकतायाः स्फुटत्वात्तत्संसृष्ट्यैव गतार्थत्वान्नालंकारान्तरस्वीकार उचित इत्याहुः ॥

इत्यलंकारमणिहारे विकस्वरालंकारसरश्चतुष्षष्टितमः