पृष्ठम्:अलङ्कारमणिहारः (भागः ३).pdf/१४७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
135
अर्थान्तरन्याससरः (६३)

 हे कृष्ण! कं पुरस्कुर्वन् पूजयन् आश्रयन्नित्यर्थः । मूर्धन्यः सकलभुवनशिरोमान्यः यः आकारः स्वरूपं तं भजतीति तथोक्तो भवसि । न कस्यचिदपि पुरस्कारेण त्वं मूर्धन्याकारभाक् किंतु स्वभावत एवेति भावः । पक्षे हे कृष्णेति कृष्णशब्दस्यैव संबोधनम् । त्वं कं कवर्णं पुरस्कुर्वन् मुखतः कुवन् मूर्धन्याः मूर्धस्थानकाः ऋकारषकारणकाराः ‘ऋ टु रषाणां मूर्धा’ इत्यनुशासनात् । ते च अकारश्च मूर्धन्याकाराः तान् भजतीति तथोक्तः भवसि संबुद्ध्यन्तकृष्णशब्दस्य ककारऋकारषकारणकाराकारभाक्त्वात्तथोक्तिः । अत्रापि पूर्ववदेव । श्लेषचमत्कारस्तु विशेषः ॥

 समर्थ्यसमर्थकयोरुभयोरपि प्रकृतत्वेऽप्ययं दृश्यते । यथा--

 दुर्लभमिह भविता श्रीवल्लभ किमु मे त्वदनुगृहीतस्य । त्वत्कृपया यद्दर्वीकरोऽपि भूभृद्वरेण्य एवासीत् ॥ १६३७ ॥

 दर्वीकरः शेषः सूदश्च । भूभृद्वरेण्यः गिरिराजः राजमुख्यश्च । अत्र समर्थ्यसमर्थकयोर्द्वयोरपि प्रकृतत्वम् । एवमग्रेऽपि ॥

 यथावा--

 रक्षेरिति वरणकृतोऽच्युत विदधद्वंशमेव मम मुख्यम् । तं शरणकृतं रचयेर्न हीयते जात्वपि त्वदीयजनः ॥ १६३८ ॥

 हे अच्युत! रक्षेरिति गोपायिता भवेरिति वरणकृतः त्वां वृतवतः मम वंशं कुलमेव मुख्यं श्रेष्ठं विदधत्सन् ‘लक्षणहे-