पृष्ठम्:अलङ्कारमणिहारः (भागः ३).pdf/१४३

विकिस्रोतः तः
Jump to navigation Jump to search
पुटमेतत् सुपुष्टितम्
131
अर्थान्तरन्याससरः (६३)

 हे प्रसूः हे जननि! सुमनसः विपश्चितः कुसुमानि च । तापैः आध्यात्मिकादिभिः रविकरादिजन्यैश्च संतापैः । प्रसूनता प्रस्वा जनन्या ऊनता हीनत्वं पक्षे कुसुमत्वं तां भजन्तीति तथोक्ताः । सुगममितरत् ॥

 यथावा--

मकरन्दस्स्वकदलनेऽप्यनुज्झितस्वार्थ एव तव वचसः । सख्यमुपैन्न हि मधुरा वैरायन्ते निजासुहृद्भ्योऽपि ॥ १६२९ ॥

 हे देवि! मकरन्दः पुष्परसः मकरन्दशब्दश्च । तव वचसः हेतुभूताद्वचनात् स्वस्य कं स्वकं तस्य दळनेऽपि मस्तकफालनेऽपीति लोकोक्तिः । पक्षे स्वस्य कः कवर्णः तस्य दळने भ्रंशे सत्यपि अनुज्झितः स्वः निजः अर्थः प्रयोजनं येन स तथोक्तः । स्वप्रयोजनैकसाधनदृष्टिः । पक्षे अनुज्झितस्वार्थः अपरित्यक्तस्वाभिधेयः मकरन्दशब्दः कवर्णभ्रंशेऽपि मरन्द इति निष्पन्नतया अपरित्यक्तस्वाभिधेय एव । मकरन्दमरन्दशब्दयोस्तुल्यार्थकत्वादिति भावः । वचस इत्येतन्मध्यमणिन्यायेनोत्तरत्राप्यन्वेति । तव वचसः वचनस्य सख्यं सौहार्दं उपैत् प्रापत् । स्वशिरोविदलनहेतुभूतेऽपि कुत एष न प्रत्यकार्षीदित्यत्राह-- मधुरा इति । मधुराः निसर्गत एव प्रियशीलाः स्वादुशीलाश्च ‘स्वादुप्रियौ तु मधुरौ' इत्यमरः । निजासुहृद्भ्योऽपि स्वप्राणहारिभ्योऽपि न वैरायन्ते तानुद्दिश्य वैरं न कुर्वन्तीत्यर्थः । ‘शब्दवैर’ इत्यादिना क्यङ् ‘तस्मै कः प्रथमाय मानिषु महावीराय वैरायते’ इत्यत्रेव ‘क्रुधद्रुह’ इत्यादिना चतुर्थी ॥