पृष्ठम्:अलङ्कारमणिहारः (भागः ३).pdf/१४२

विकिस्रोतः तः
Jump to navigation Jump to search
पुटमेतत् सुपुष्टितम्
130
अलंकारमणिहारे

"समानप्रवरां कन्यामेकगोत्रामथापि वा ।
विवाहयति यो मूढस्तस्य वक्ष्यामि निष्कृतिम्" ॥

 "असगोत्रामसमानप्रवरां विन्देत” इत्यादिशातातपविष्णुप्रभृतिधर्मशास्त्रवचनविरोधस्सूचितः । पक्षे विः पक्षी गरुत्मान् स एव वाहः वाहनं तस्य योगः ‘अजिताकर्षणी नीतिर्गरुडा गरुडासना’ इति, ‘वाहनं वेदात्मा विहगेश्वरः' इत्यादिभिर्लक्ष्म्या अपि तद्वाहनात्वोक्तेरिति भावः । कुत एवं शास्त्रनिषिद्धे प्रवृत्तिरत्यत्राह-- स्वैरा इति । स्वैराः स्वेच्छाचारिणः क्वनु विधिनिषेधवशगाः स्युः न भवन्त्येवेति भावः 'अप्रमेयोऽनियोज्यश्च यत्र कामगमो वशी' इत्युक्तरीत्या भगवतस्स्वैरत्वमिति हृदयम् ॥

 यथावा--

 कचविजितोऽवध्वस्तश्शैवल इह शैलतां प्रपद्य पुनः । कुचविजितोऽभूल्लक्ष्म्याश्श्रिया जितः क्वनु जयाय कल्पेत ॥ १६२७ ॥

 शैवलः शैवालं अवध्वस्तः अवचूर्णितः ‘अवध्वस्तोऽवचूर्णितः' इत्यमरः । पक्षे वकारेण ध्वस्त इति वा वकारो ध्वस्तो यस्मादिति वा वध्वस्तः । शैलतां गिरितां शैलशब्दतां च प्रपद्य । स्पष्टमन्यत् ॥

 यथावा--

 देवि प्रसूर्न हि त्वत्पुष्टा म्लायन्ति सुमनसस्तापैः । म्लायन्ति तरुगतास्तु क्वनु न म्लानिः प्रसूनताभाजाम् ॥ १६२८ ॥