पृष्ठम्:अलङ्कारमणिहारः (भागः ३).pdf/१३५

विकिस्रोतः तः
Jump to navigation Jump to search
पुटमेतत् सुपुष्टितम्
123
अर्थान्तरन्याससरः (६३)

भ्राष्ट्रो ना कन्दुर्वा स्वेदनी स्त्रियाम्' इत्यमरः । कन्दुशब्दः वा ना वा पुंसीति कोशार्थः । स्वेदनीजन्म भजमानोऽपि तद्वन्निस्तेजस्को भवन्नपीति तु हृदयम् । पक्षे हारी इक्षयमिति च्छेदः । इन्दुः इन्दुशब्दः इक्षयं इकारलोपं यातः नैतावदेव, कमपि यातः । अपिस्समुच्चये । इकारस्थाने ककारं च यातः कन्दुरिति निष्पन्न इत्यर्थः । एवं कन्दुरूपं प्रपन्नोऽपि कमपि क्षयं यात इत्यावृत्त्या योजनीयम् । इन्दुत्वावस्थायामिव कन्दुत्वावस्थायामपि राजयक्ष्माणं प्राप्त एवासीत् न तु तमत्याक्षीदिति भावः । वस्तुतस्तु कमपि क्षयं गृहं महानसमिति भावः । तत्रैव कन्दोरवस्थानौचित्यात् ‘क्षयो रोगान्तरे वेश्मकल्पान्तापचयेषु च' इति मेदिनी । यद्वा चुल्लीस्थित्यवसरलग्नधूममषीव्यपनयार्थकृतसिकतादिघर्षणभूयस्तया अपचयं यात इत्यर्थः । कथमस्य जन्मान्तरेऽपि क्षयानुवृत्तिरित्यत आह-- य इति । यः स्वान्ते मनसि ‘स्वान्तं हृन्मानसम्' इत्यमरः । दुस्थितिमान् नित्यं परस्वापहारादिदुराशयवान् । नित्ययोगे मतुप् । तदनुरूपक्षयाद्युपतापी च भवति । सः भावान्तरेऽपि ‘भावस्सत्तास्वभावाभिप्रायचेष्टात्मजन्मसु' इत्यमरः । दुस्थितिमानेव भवति । न हि नित्यमेव पापशीलानामकृततन्निष्कृतीनां जन्मातरेऽपि तत्फलानुभवस्सुकरापनोद इति भावः । वस्तुस्तु यः इन्दुशब्दः स्वान्ते स्वस्य चरमभागे दुस्थितिमान् इकारलोपेन तत्स्थाने ककारं प्राप्तोऽपि नित्यदुवर्णस्थितिमानिति भावः । सः इन्दुशब्दः भावान्तरेऽपि कन्दुरिति रूपान्तरे प्राप्तेऽपि दुस्थितिमानेव दुवर्णस्य पूर्वमप्यनपनतित्वात्तद्विशिष्ट एव भवति । इन्दुकन्दुशब्दयोरुभयोरप्यन्ते दुरितिवर्णसमुदयस्य तौल्यादिति भावः । शब्दार्थता-