पृष्ठम्:अलङ्कारमणिहारः (भागः ३).pdf/१३४

विकिस्रोतः तः
Jump to navigation Jump to search
पुटमेतत् सुपुष्टितम्
122
अलंकारमणिहारे

 यः पुमान् परमपुरुषाश्रितः सः परेषां वैरिणां वाग्भिश्शरैश्च । पक्षे शरतुल्याभिर्वाग्भिः बाधितोऽपि क्षतोऽपि दृढभावात् भगवदनुग्रहजनितशरीरदार्ढ्यात्तद्भक्तिदार्ढ्याच्च पुरेव भगवदाश्रयणात्पूर्वमिव परं अरुषा ‘व्रणेन व्रणोऽस्त्रियामर्मिमरुः' इत्यमरः । श्रितो न भवेत् । प्रह्लादादेरिव तस्य भगवत्प्रसादात्परैः प्रयुक्ताश्शरा न व्यथालेशमपि विधातुमीशरिन्निति भावः । पक्षे परमया रुषा क्रुधा श्रितो न भवेत् ‘न क्रोधो न च मात्सर्यम्' इत्याद्युक्तरीत्या क्षोदिष्ठमर्मस्पर्शिवाग्भिस्तस्य क्रोधानुदयादिति भावः । तथाहि तथाविधः महदाश्रितः न सीदेत् नावसीदेदित्यर्थः ॥

 पक्षे परमपुरुषाश्रितशब्दः न विद्यते पुः पुवर्णः यस्य नपुः नशब्देन बहुव्रीहिः । पुवर्णरहित एव परमरुषाश्रित इति जायते । तथाविधः पुवर्णविधुरतां प्राप्तोऽपि परमपुरुषशब्दः न हि सीदेत् निरर्थकतया नावतिष्ठेत किंतु अर्थवत्तयैव जागृयादिति भावः ।

 यथावा--

 इन्दुः कन्दुरपि त्वन्मुखवसुहारी क्षयं कमपि यातः । यो दुस्थितिमान् स्वान्ते स भवति भावान्तरेऽपि दुस्थितिमान् ॥ १६१५ ॥

 हे भगवन्! इन्दुः त्वन्मुखवसुहारी वदनप्रभाहरणशीलः त्वत्प्रभृतिधनहरणशील इति च गम्यते । ताच्छील्ये णिनिः । अतएव कमपि क्षयं सकलकलापचयरूपं राजयक्ष्माणं यातस्सन् कन्दुरपि कन्दुर्भवन्नपि कन्दुर्नाम अयोमय उत्तानो वर्तुलाकारो होळकाद्यपूपनिर्वर्तनोपकरणभूतो वस्तुविशेषः । ‘क्लिबेऽम्बरीषं