पृष्ठम्:अलङ्कारमणिहारः (भागः ३).pdf/१३२

विकिस्रोतः तः
Jump to navigation Jump to search
पुटमेतत् सुपुष्टितम्
120
अलंकारमणिहारे

 हे भगवन्! विकचं व्याकोचं सिताम्बुजं पुण्डरीकं उद्भटः गन्धः यस्य तत्तथोक्तं अतिसौन्दर्यगर्वितमित्यर्थः । अतिसौरभशालीति तु तत्त्वम् । अथ त्वन्नयनजितं अत एव अपचितं अपचयं प्राप्तं त्वन्नयनजितं अथ अपचितमिति वा योजना । पक्षे विकचसिताम्बुजमिति पदं अपचितं अपगतचकारं कृतं सत् विकसिताम्बुजं भवदिति भावः । तव सर्वदास्यलक्ष्मीं सर्वविधकैंकर्यश्रियं, पक्षे सर्वदा आस्यलक्ष्मीं मुखशोभां अलभत । तथाहि, सूनस्य सुष्ठु ऊनस्य वैरशुद्ध्यौपयिकशौर्यधैर्यादिभिस्सर्वथाऽपि हीनस्य प्रसूनस्येति तु तत्त्वम् । गतिः स्थितिः इयती एतावती । यत्प्रतीकाराक्षमतया स्वजैत्रोपसर्पणमिति भावः । अयमपि सामान्येन विशेषस्य समर्थनरूप एव ॥

 त्वत्सौकुमार्यविजितं मत्वा निजसौकुमार्यमखिलाम्ब । नवनीतमनस्थितिमद्वनीतमासीन्मृदोर्हि गतिरियती ॥ १६११ ॥

 नवनीतं अनस्थितिमत् अनसि शकटे स्थितिमत् 'शर्परे खरि वा विसर्गलोपः' इति विसर्गलोपे स्थितीत्यत्रैकसकारकमेव रूपमर्थान्तरे शब्दावैरूप्यायेति ध्येयम् । देशान्तरप्रस्थानाय शकटमारूढमिति भावः । वनीतं वनीं गतं अथवा वनी इता प्राप्ता येनेति बहुव्रीहिः । अरण्यानीं प्रविष्टमित्यर्थः । पक्षे नवनीतमिति पदं नस्य नकारस्य स्थितिः साऽस्यास्तीति नस्थितिमत् तन्न भवतीत्यनस्थितिमत् नकारविघटीतं वनीतमासीदित्यर्थः । तथाहि, मृदोः कोमलस्य अतीक्ष्णस्य च गतिः ईदृक् । अन्यत्सर्वं पूर्ववत् ॥