पृष्ठम्:अलङ्कारमणिहारः (भागः ३).pdf/१३१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
119
अर्थान्तरन्याससरः (६३)

प्राप्तेऽपीत्यर्थः । अन्तः मनसि, पक्षे अन्तः प्रदेशे न व्यक्रियत न विकुरुते स्म । हृदयदौर्बल्यं न प्राचीकशदिति यावत् । कर्मकर्तरि यक् । यद्वा न व्यक्रियत नदीनतां नात्याक्षीदित्यर्थः । पक्षे क्षुभितो नासीदित्यर्थः । ईदृक् गभीरस्वभवः प्रकृतिवैपरीत्येन गभीरिमरूस्वस्वभावविपर्ययेण विकृतिभाक्, लाघवरूपविकारभाक् न भवति । आपतत्स्वपि हृदयविक्षोभहेतुषु भूयस्सु न गभीरप्रकृतिस्स्वस्वभावविरोधिलाघवादिरूपविकारमाप्नोतीति भावः ॥

 पक्षे नदीनः नदीन इति शब्दः उपर्युपरि अग्रेऽग्रे भङ्गे स्वादिविभक्तीनां परस्परं भेदे उपनतेऽपि । ‘भङ्गो जयविपर्यये । भेदरोगतरङ्गेषु' इति मेदिनी । अन्तः विभक्यपेक्षया पूर्ववर्तिनि प्रातिपदिकरूपे अन्तर्भागे न व्यक्रियत । विभक्तीनामन्योन्यभेदसद्भावेऽपि प्रकृतेरविकृततयैवावस्थानादिति भावः । न केवलं यथावस्थितप्रातिपदिकाविकृतत्वमेव, अपितु तद्वैपरीत्येऽप्यविकृतत्वमेवेत्याह-- ईदृगिति । ईदृक् नदीनशब्द एवेति भावः । प्रकृतिवैपरीत्येन प्रातिपदिकरूपप्रकृतेर्व्यत्यस्ततया पाठे न विकृतिभाक् पूर्वापेक्षया विभिन्नवर्णानुपूर्वीकः न भवति । किंतु यथापुरं नदीन इत्येवावतिष्ठत इति भावः । अत्र समुपनतेऽपीत्यादिना नान्तरित्यन्तेन प्रतिपादितस्य विशेषस्य ईदृगित्यादिसामान्येनाप्रस्तुतेन समर्थनम् । समासोक्तिसंकीर्णत्वादिविच्छित्तिविशेषस्तु सुगम एव ॥

 यथावा--

 विकचसिताम्बुजमुद्भटगन्धं त्वन्नयनजितमथापचितम् । तव सर्वदाऽऽस्यलक्ष्मीमलभत सूनस्य वृत्तिरियती हि ॥ १६१० ॥