पृष्ठम्:अलङ्कारमणिहारः (भागः ३).pdf/१२९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
117
अर्थान्तरन्याससरः (६३)

एव, पक्षे मन्दसंज्ञा एव ‘मन्दोतीक्ष्णे च मूर्खे च स्वैरे चाभाग्यरोगिणोः । अल्पे च त्रिषु पुंसि स्याद्धस्तिजात्यन्तरे शनौ’ इति मेदिनी । उलूकारूढानामीप्सितसिद्ध्यर्थं यतमानानामपि कुतो महाभाग्यलाभ इति भावः । अमीषु श्रीस्तनेत्यादिषु त्रिषूदाहरणेष्वपि श्लेषोत्तम्भितविषमालंकारसंकीर्णत्वं विशेषः ॥

 यथावा--

 पुष्करमम्ब पदा तव निष्कासितमपि रमे त्वदाधारतया । पुरमासीत्तव महता तिरस्कृतोऽप्याश्रितोऽमुमयते हि शुभम् ॥ १६०६ ॥

 हे अम्ब रमे! पुष्करं कमलं तव पदा पादेन निष्कासितं स्वविजिततया स्थानान्निस्सारितमपि त्वदाधारतया त्वदेकावलम्बनतया त्वदधिष्ठानतया च तव पुरं गृहं आसीत् ‘अगारे नगरे पुरम्' इत्यमरः । पक्षे पुष्करमिति पदं निष्कासितं निगतः ष्क इति वर्णसमुदयो यस्मिन् कर्मणि तद्यथा भवति तथा आसितं उपवेशितं पुरमासीदित्यर्थः । स्पष्टमन्यत् । अत्रापि विशेषस्य सामान्येन साधर्म्येण समर्थनम् ॥

 यथा--

 त्वय्यत्यादरवांश्चेत्प्रत्याख्यातोऽपि चेतनो भगवन् । सुतरां प्रख्यातस्स्यात्त्वदादरो ह्यद्वितीयतां फलति ॥ १६०७ ॥

 हे भगवन्! त्वयेति शेषः । प्रत्याख्यातः अभिभूतोऽपि चेतनः कश्चित्प्राणी प्राह्लादिर्बलिरिवेति भावः । त्वयि अत्या-