पृष्ठम्:अलङ्कारमणिहारः (भागः ३).pdf/१२७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
115
अर्थान्तरन्याससरः (६३)

 यथावा--

 त्वज्जङ्घादास्याप्त्याऽहा जाता जननि काहळी काळी । श्रेयस्करीश्वराणां प्रायस्सेवा जडात्मनोऽपि स्यात् ॥ १६०२ ॥

 काहळी त्वज्जङ्घयोः दास्यस्य आप्त्या ईदृशभाग्येनेति भावः । काळी गौरी जाता ‘काळी हैमवतीश्वरी' इत्यमरः । हा इत्याश्चर्ये । पक्षे काहळीति शब्दव्यक्तिः अहा जातेति छेदः । अहा अविद्यमानहकारा सती काळी जाता काळीति निष्पन्नेति शब्दार्थतादात्म्यमूलकश्लेषदत्तहस्तो विशेषस्य सामान्येन समर्थनरूपोऽयम् ॥

 यथावा--

 श्रीस्तनकलशयुगेन स्पर्धायै यदि भजेत मुखगतताम् । गुच्छस्तुच्छस्स्यादिह कठिनेन मृदोर्हि भवति परिभूतिः ॥ १६०३ ॥

 गुच्छः स्तबकः श्रीस्तनकलशयुगेन सह स्पर्धायै स्पर्धार्थं मुखगततां तत्संमुखीनतां भजेत यदि तदा तुच्छ एव स्यात् शौर्यरिक्त एव स्यात् 'शून्यं तु वशिकं तुच्छरिक्तके' इत्यमरः । पक्षे गुच्छः गुच्छशब्दः मुखे विद्यमानो यो गः तस्मिन् ततां तकारत्वं भजेतचेत् तुच्छः स्यात् । गतेत्यत्र वर्णद्वयेऽप्यकारो मुखसुखोच्चारणार्थः । गकारमपनीय तत्र तकारन्यासे तुच्छ इति निष्पद्येतेत्यर्थः ॥