पृष्ठम्:अलङ्कारमणिहारः (भागः ३).pdf/१२६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
114
अलङ्कारमणिहारे

 घनसारः कर्पूरः तिलकः स्तात् भवतु । हरिणा प्रकृतेन भगवता श्रीनिवासेन तस्यैव कर्पूरकस्तूरीतिलकितफालत्वप्रसिद्धेः । अत्र घनसारस्य नाम्नैवाभ्यर्हणीयस्य तिलकीकरणमुचितमेव । मृगनाभेः नाम्नैव जुगुप्सनीयस्य तिलकीरणमनुचितमित्याक्षिप्य अथवेत्यादिना सामान्येन समर्थित इत्याक्षेपालंकारसंकीर्णत्वं पूर्वस्माद्विशेषः ॥

 यथावा--

 उद्दामरामतेजोज्वलनैर्भ्रष्टो धरातलभ्रष्ट्रो । निःश्रीकोऽरिगणोऽभूद्भ्रष्टस्य रमागमः कुतो वा स्यात् ॥ १६०१ ॥

 उद्दामरामतेजांस्येव ज्वलनाः अग्नयः तैः अरिगणः धरातलमेव भाष्ट्रं अम्बरीषं तस्मिन् ‘क्लीबेऽम्बरीषं भ्राष्ट्रो ना’ इत्यमरः । भ्रष्टः भर्जनं प्रापितस्सन् निश्श्रीकः अलक्ष्मीकः अभूत् भ्रष्टस्य भर्जितस्य ‘भ्रस्ज पाके' इत्यस्मात्कर्मणि क्तः । भ्रंशं प्राप्तस्य च, भ्रंशधातोः कर्तरि क्तः । ‘व्रश्च' इति षत्वे ष्टुत्वम् । रमागमः लक्ष्मीप्राप्तिः । पक्षे रमित्याकारक आगमः कुतो वा स्यात् । ‘भ्रस्जोरोपधयोरमन्यतरस्याम्' इति रमागमस्य वैकल्पिकत्वेन भ्रष्टस्येत्यत्र तदभावः । न्यथा भर्ष्टस्येति स्यादिति भावः । "भ्रस्जेः रेफस्य उपधायाश्च स्थाने रमागमो वा स्यादार्धधातुके मित्त्वादन्त्यादचः परः स्थानषष्ठीनिर्देशाद्रोपधयोर्न्निवृत्तिः" इति सूत्रार्थः । अत्रापि पूर्वपादत्रयप्रतिपादितस्य विशेषस्य चरमपादप्रतिपाद्यसामान्येन समर्थनम् । रूपकश्लेषोज्जीवितत्वादिकं विशेषः ॥