पृष्ठम्:अलङ्कारमणिहारः (भागः ३).pdf/१२३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
111
काव्यलिङ्गसरः (६२)

 श्रुतिशिखरदुर्गमाद्भुतविभव हरे तावकान् गुणानखिलान् । भणितुं विजृम्भितवतो डिम्भस्यागस्त्वयैव सोढव्यम् ॥ १५९६ ॥

 अत्र डिम्भत्वं शुद्धैकसुबन्तार्थः अपराधसोढव्यत्वे हेतुः । तथा अद्भुतविभवत्वमचिन्तनीयैश्वर्यत्वं सुबन्तार्थविशेषितसुबन्तार्थरूपं श्रुतिशिखरदुर्गमत्वे । एवं तादृशभगवद्गुणकर्मकवर्णनमागसि तादृशवर्णने च उच्छृङ्खलतया विजृम्भणमिति शुद्धसुबन्तार्थोदाहरणे विशिष्टसुबन्तार्थस्याप्युदाहरणम् ॥

 दयितोऽपि तव मयाऽम्ब त्वदाश्रयमदादुदासनमनायि । यदिमुञ्चसीममधुना रक्षेति तमेव किमिति शरणमियाम् ॥ १५९७ ॥

 हे अम्ब! त्वदाश्रयमदात् त्वदवलम्बगर्वात् तव दयितो भगवानपि उदासनं उपेक्षणं अनायि प्राप्यत । सर्वशरण्यं तमप्पुपेक्षितवानिति भावः । अधुना त्वदुपेक्षावसरे अमुं मामिति भावः । मुञ्चसि यदि । अधुनेत्येतत् मध्यमणिन्यायादुभयतोऽन्वेति । अधुना तमेव पूर्वं गर्वादुपेक्षितमेव तव दयितं किमिति शरणमियां, इयं लोकोक्तिः । कृतापराधस्तदग्रतः किमानुकूल्यं मयाकृतमिति शरणं प्राप्नुयामिति भावः । अत्र इममित्यादिना अभिव्यक्ते वक्तृनिष्ठानन्यशरणताहेतुुकाश्रयान्तरपाराङ्मुख्ये आत्मकर्तृकभगवत्कर्मकोदासीनताप्रापणरूपसुबन्तार्थविशेषिततिङन्तार्थ उपपादकः ।

 द्रुह्यन्ति ये जगद्भ्यस्त्वद्दयितायापि हन्त तेभ्योऽपि । वितरसि विविधं विभवं सुतरां मुग्धाऽसि दुग्धसिन्धुसुते ॥ १५९८ ॥