पृष्ठम्:अलङ्कारमणिहारः (भागः ३).pdf/१२२

विकिस्रोतः तः
Jump to navigation Jump to search
पुटमेतत् सुपुष्टितम्
110
अलङ्कारमणिहारे

 यथावा--

 अपि नाथ ब्रह्माण्डान्यधिजठरं धारयन्नखिन्नस्त्वम् । न्यस्तो मयाऽवनभरः कियानपि स्यात्ततो नु बिभियाः किम् ॥ १५९४ ॥

 कियानपि स्यात् अल्पीयान्वा भवेन्महीयान्वा । अत्रानन्यसामान्यतया प्रतिपादितस्य भगवत आत्मरक्षाभरवहनभयाभावरूपोत्कर्षस्यापाततो घटमानस्योपपादनायानन्तकोटिब्रह्माण्डाक्लेशधारणसमानाधिकरणः खेदाभावस्सुबन्तमात्रार्थाविशेषितस्सुबन्तार्थो हेतुतयोपनिबद्धः । धारयन्नित्यत्र पूर्ववदेवाकृछ्रार्थे शता । इमानि त्रीण्यप्युदाहरणानि तुल्यानि ॥

 यस्य स्मरणायापि त्रस्यन्ति चतुर्मुखादयो लेखाः । तद्ब्रह्म हृदि निबध्नन्नलज्जयत्कोऽपि तानसुरडिम्भः ॥ १५९५ ॥

 स्मरणाय त्रस्यन्ति स्मरणं कर्तुमपि बिभ्यति । कोऽपि असुरडिम्भः प्रह्लाद इत्यर्थः । तान् चतुर्मुखादीन् अलज्जयत् । तद्ध्यानागोचरमपि ब्रह्म स्वहृदि निबध्नन् तान् त्रपाविष्टानकरोदिति भावः । अत्र चतुर्मुखादिकर्मकलज्जाप्रयोजकत्वसिद्धये तथाविधपरब्रह्मकर्मकहृदयाधिकरणकबन्धनं कविना निबद्धं, तच्चेतरसुकरत्वात्ताद्दशसिद्ध्यसमर्थं विशेषकान्तरमपेक्षत इति चतुर्मुखादिकर्तृकपरब्रह्मानुस्मरणत्रासरूपवाक्यार्थः परब्रह्मरूपकर्मद्वारा विशेषक उपात्तः, तद्विशिष्टं च तादृशहृदयाधिकरणकबन्धनमसुरडिम्भारूढं तादृशलज्जाप्रयोजकत्वरूपकार्योपपादनसमर्थमिति भवति हेतुः ॥