पृष्ठम्:अलङ्कारमणिहारः (भागः ३).pdf/१२१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
109
काव्यलिङ्गसरः (६२)

विशेषणद्वारा कारणोपनिबन्धः तदा पदार्थवृत्ति काव्यंलिङ्गम्' । इत्येकावळीकारेण तृतीयापञ्चमीविभक्त्यन्तयोरेवेदृशस्थले हेतुत्वमसुन्दरमिति कण्ठत एव वर्णितम् । अतएव रसगङ्गाधरकारस्य ‘इमं तं मामम्ब त्वमथ करुणाक्रान्तहृदये पुनानासर्वेषामघमथनदर्पं दलयसि' इति काव्यलिङ्गोदाहरणं दर्शयतः पवित्रीकरणस्यान्याघदर्पदलनसमर्थकतोक्तिस्संगच्छते । अस्य चायमभिप्रायः-- हेतोश्शाब्दतायामेव न काव्यलिङ्गावतारः ‘लक्षणहेत्वोः’ इति विहितशतृशानजन्तस्थले हेतुहेतुमद्भावस्य संसर्गतया तृतीयापञ्चम्यन्तस्थल इव हेतोर्न शाब्दत्वमिति । यद्यपि पुनानेत्यत्र ताच्छील्यार्थे शक्त्यर्थे वा चानशा निर्वाहस्सुकरः तस्याहेत्वर्थकत्वात् । तथाऽपि ‘नमन्मुक्तस्संप्रीत' इत्यादौ हेत्वर्थविहितशत्रन्तस्य नमन्नित्यादिपदस्य मुक्तत्वं प्रति हेतुत्ववर्णनात् शतुर्हेतुत्वमशाब्दमित्येवावसेयम् । न हि चानश इवास्य शतुस्ताच्छील्याद्यर्थकत्वेनान्यधासिद्धिश्शक्या कर्तुं, तादृशानुशासनादर्शनात् । एवमुदाहृतसूत्रविहितशानजन्तस्थलेऽपि द्रष्टव्यमित्यन्यत्र विस्तरः ॥

 यथावा--

 उपगूहितादधीयन्नुदधिसुताकुचयुगात्कठोरत्वम् । तद्धारयन् हृदी हरे दीनेषु भवेः कथं नु मृदुहृदयः ॥ १५९३ ॥

अत्र दुर्घटस्य भगवतो मृदुहृदयताभावस्योपपादनाय उदधिसुताकुचयुगापादानककठोरताध्ययनसमानाधिकरणस्तद्धृदयधारणरूपस्सुबन्तमात्रार्थविशोषितस्सुबन्तार्थो हेतुतयोपात्तः । अधीयन् धारयन्नित्यत्र ‘इङ्धार्योश्शत्रवृच्छिणि’ इत्यकृच्छ्रार्थे शता ॥