पृष्ठम्:अलङ्कारमणिहारः (भागः ३).pdf/११७

विकिस्रोतः तः
Jump to navigation Jump to search
पुटमेतत् सुपुष्टितम्
105
काव्यलिङ्गसरः (६२)

ऽहमहं भोगी’ इत्युक्तरीत्या स्वतन्त्रात्मभ्रमवानस्मीत्यर्थः । न्यस्तभरोऽपि त्वयि समर्पितात्मात्मीयरक्षाभरोऽपि तथैवाविदम् । भव्यगुणायत्तः आत्मानमेवेश्वरमज्ञासिषमित्यर्थः । इति एवंप्रकारं भरार्पणपूर्वोत्तरकालकृतं मे मम मन्तुद्वयं अपराधयुग्मं क्षमेथाः । वास्तवार्थस्तु-- भरन्यसनोत्तरं भव्याः कल्याणाः ये गुणाः सौशील्यादयस्तावकाः शान्त्यादयो मामकाश्च तेष्वायत्तस्सन् आत्मानमेव ईश्वरमविदं परमात्मानं त्वामेव शेषिणमज्ञासिषम् । यद्वा आत्मानं प्रत्यगात्मशरीरकं ईश्वरमविदम् । ईश्वरशरीरभूतमात्मानमविदमिति भावः । अनेन स्वतन्त्रात्मभ्रमो निवर्त्यते । अत्र तावदपराधद्वयं समर्थनीयमस्फुटहेतुकत्वात् । तत्समर्थनं च भरार्पणपूर्वापरकालयोरैकरूप्येण श्लेषमूलकेन यत् आत्मन ईश्वरत्ववेदनं तद्रूपाभ्यां वाक्यार्थाभ्यां क्रियते । अत्र वाक्यद्वयेऽपि भव्यगुणायत्त इत्येष उक्तरीत्या एकपदार्थोऽनेकपदार्थो वा हेतुः श्लेषभित्तिकाभेदाध्यवसायानुप्राणितत्वं पूर्वतो विशेषः ॥

 क्वचित्समर्थनीययोरन्योन्यमविरुद्धयोरुभयोः क्रमादुभौ हेतुभावं भजेते ।

 यथा--

 यस्य रमां दयिततमां तनयं प्रतिलोमतदभिधावाच्यम् । आहुस्तस्य तवाच्युत विभवं रूपं च को गदितुमीष्टाम् ॥ १५८९ ॥

 प्रतिलोमा व्यत्यस्ता तस्याः रमायाः अभिधा आख्या तस्याः वाच्यं अभिधेयं मारमित्यर्थः । अत्र भगवद्विभवरूपयोर्निरतिश-

 ALANKARA--III.
14