पृष्ठम्:अलङ्कारमणिहारः (भागः ३).pdf/११६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
104
अलङ्कारमणिहारे

ङ्कम् । स्वातंत्र्यदौर्ललित्यं सोढा कोऽच्युत तवेश्वरस्यापि ॥ १५८७ ॥

 हे अच्युत! अतितरां मुग्धः मूढः सौम्यश्च त्वं ‘मुग्धस्सौम्ये नवे मूढे’ इति रत्नमाला । प्राह्लादिं प्रह्लादगोत्रापत्यं बलिं अबध्नाः वरुणपाशैरिति शेषः । प्राह्लादिमित्यनेन अतिमात्रान्तरङ्गता द्योत्यते । कङ्कं जटायुं अमूमुचः अमोचयः मुक्तभवबन्धमकरोः कङ्कमित्यनेन तिर्यक्तया अतिवेलोदासीनता द्योत्यते । किंच कमपि कमपीत्यज्ञातशीलमतिबहिरङ्गमित्यर्थोऽपि व्यज्यते । अत्र भगवतः स्वातन्त्र्यदौर्ललित्यं समर्थनसापेक्षं, अव्यक्तहेतुकत्वात् । तत्समर्थनं च अन्तरङ्गभूतबलिबन्धनोदासीनतमगृध्रमोचनलक्षणवाक्यार्थाभ्यां क्रियते । तत्र प्रतिवाक्यार्थं मुग्ध इति पदार्थो हेतुः ॥

 यथावा--

 भव्यगुणायत्तोऽविदमीश्वरमात्मानमेव पूर्वमहम । न्यस्तभरोऽपि तथैवेत्यच्युत मन्तुद्वयं क्षमेथा मे ॥ १५८८ ॥

 पूर्वं भरन्यसनात्प्राक् अहं भव्याः भवे साधवः ‘तत्र साधुः इति यत् । संसारौपयिका इति यावत् । ये गुणाः रजःप्रभृतयः तेषु आयत्तः अधीनः । यद्वा भवी अगुणायत्त इति छेदः भवी संसारी अहं अगुणायत्तः अगुणाः अप्रशस्तगुणाः मात्सर्यादयः नञत्राप्राशस्त्ये । यद्वा भगवत्कटाक्षलाभौपयिकशान्त्यादिगुणाः तेषामनधीनस्सन्निस्यर्थः । आत्मानं मामेव ईश्वरं त्वां अविदं अहमेव ब्रह्मेति स्वस्वरूपादभिन्नमविदम् । यद्वा 'ईश्वरो-