पृष्ठम्:अलङ्कारमणिहारः (भागः ३).pdf/११३

विकिस्रोतः तः
Jump to navigation Jump to search
पुटमेतत् सुपुष्टितम्
101
काव्यलिङ्गसरः (६२)

 अत्र श्रीनिवासहृदयकठोरत्वं प्रस्तरवरेत्यादि-अरिगणेत्यादिपदार्थाभ्यां समर्थितम् ।

 यथावा ममैव श्रीहयवदनस्तुतौ--

 अमृतकरे वससि हरे क्षीररुचिस्त्वं निसर्गतो मधुरः । तव सैन्धव इति वादो भविता कण्ठोपरीत्युचितमेव ॥ १५८२ ॥

 हे हरे! श्रीहयवदन! अमृतकरे सुधाविधायके पीयूषकिरणे इति तु तत्त्वम् । वससि । अनेनागन्तुकं माधुर्यमुक्तम् । निसर्गतः स्वभावत एव मधुरः मधुररसविशिष्टः जगतां प्रिय इति तु तत्त्वम् । 'स्वादुप्रियौ तु मधुरौ' इत्यमरः । अत एव क्षीरस्य दुग्धस्य रुचिः स्वादिमेव रुचिः स्वादिमा यस्य स तथोक्तः । तव ईदृशस्य सैन्धवः लवणमिति वादः उक्तिः कण्ठोपरि कण्ठादूर्ध्वं प्रवृत्तः अहृदय एव । न तु हृदयपूर्वक इत्युचितमेव । अतिमात्रमधुरस्य लवणमिति कथनं कथं मनःपूर्वकं भवेदिति भावः । परमार्थतस्तु-- सैन्धवः अश्व इति वादः कण्ठादुपरि तव हयास्यत्वादिति भावः । ‘सैन्धवो लवणे न स्त्री हये ना सिन्धुजे त्रिषु' इति रत्नमाला । अत्र अमृतकरे वससिति वाक्यार्थेन क्षीररुचिः निसर्गतो मधुर इति पदार्थाभ्यां च सैन्धवतावादस्य कण्ठादुपरि प्रवृत्तत्वौचित्यरूपस्य समर्थनमिति विशेषः ॥

 क्वचित्पदार्थवाक्यार्थौ परस्परसापेक्षौ हेतुभावं भजतः । यथा--

 तज्जयतु कनकमकुटं यज्जगदीशो बिभर्ति शिरसैव । कनकगिरिणाऽस्य तुलना सकलसुरैरप्यधः कृतेन कथम् ॥ १५८३ ॥