पृष्ठम्:अलङ्कारमणिहारः (भागः ३).pdf/१०७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
95
काव्यलिङ्गसरः (६२)

कबरी । मधुरिपुहृत्पद्माकरविलोडने बत करी भवति ॥ १५७४ ॥

 हे अम्ब! सुतरा अतिमात्रशोभना तव कबरी स्ववर्णतः स्वकीयश्यामलिम्ना । सार्वविभक्तिकस्तसिः । अम्बराय व्योम्ने हिततां मित्रतां अनुविन्दती सती व्योमतुलनां प्राप्तवती सती । मधुरिपुहृदेव पद्माकरः पद्मनामावासभूतस्तटाकः तस्य विलोडने विक्षोभणे करी भवति गजस्संपद्यते । तत्तुल्यो भवति पटूभवतीति यावत् । पक्षे कबरी कबरीति शब्दव्यक्तिः सुतरां अतिमात्रं स्ववर्णतः स्वस्मिन्विद्यमानेषु वर्णेषु पूर्ववत्सार्वविभक्तिकस्तसिः । वरहिततां ववर्णविधुरतां अनुविन्दती सती करी भवति कबरीशब्दो बवर्णराहित्ये करीति निपद्यत इत्यर्थः । अत्र कबर्याः करीभवनमघटमानं सुतराम्बरहिततामित्याद्यनेकपदार्थैस्समर्थ्यते । इदं च श्लेषपरंपरितरूपकाभ्यां परिपोषितमिति द्रष्टव्यम् ॥

 यथावा--

 ननु दुग्धसागरः प्राक्कौर्मे रूपेऽगमथनतो भगवन् । समतानि दुग्धसारो भवता कौस्तुभरमे समाददता ॥ १५७५ ॥

 हे भगवन्! अगमथनतः अगेन मन्दरेण मथनं ‘साधनं कृता' इति समासः । तस्मात् अगमथनतः अगमथनं कृत्वेति ल्यब्लोपे कर्मणि पञ्चम्यास्तसिः । कौस्तुभः रमा लक्ष्मीश्चेत्येते समाददता स्वीकुर्वता ‘लक्षणहेत्वोः' इति सौत्रनिर्देशेन पूर्वनिपातप्रकरणस्यानित्यताज्ञापनात्कौस्तुभशब्दस्य पूर्वनिपातः ।