पृष्ठम्:अलङ्कारमणिहारः (भागः ३).pdf/१०२

विकिस्रोतः तः
Jump to navigation Jump to search
पुटमेतत् सुपुष्टितम्
90
अलङ्कारमणिहारे

माङ्गावशेषणमपि दुर्लभमित्येतौ पूर्वोत्तरवाक्यार्थौ । चक्रधरो मे चकास्ति हृदीति स्वहृदयाधिकरणकराहुशिरश्छेत्त्तृसुदर्शनायुधधरभगवत्प्रकाशरूपवाक्यार्थेन मध्यमणिकल्पेन समर्थितावित्येकेन वाक्यार्थेन वाक्यार्थेद्वयसमर्थनं पूर्वेभ्यो विच्छित्तिशालि ॥

 मालारूपमपीदं दृश्यते । यथा--

 त्वां य उदास्ते माधव मदवृत्तिस्स मनुजोऽपि दनुजस्स्यात् । नित्यमुपास्ते यस्त्वां दमवृत्तिस्स दनुजोऽपि मनुजस्स्यात् ॥ १५६७ ॥

 हे माधव! मदवृत्तिः मदे गर्वे वृत्तिर्यस्य स तथोक्तः । स मनुजोऽपि मानवोऽपि मत्ततया उदासितृत्वाद्दनुज एव स्यात् आसुरस्वभाव एव भवेत् । पक्षे मनुजशब्दः मकारस्थाने दकारन्यासे दनुज इति निष्पद्येतेत्यर्थः । यस्तु त्वां नित्यं दमे दान्तत्वे वृत्तिर्यस्य स तथोक्तः । दकारस्थाने मकारन्यासे इत्यर्थः । स दनुजोऽपि मनुजः दमशीलत्वान्मनुजतुल्य एव भवेत् । पक्षे दनुजशब्दो मनुज इति निष्पद्येतेत्यर्थः । अत्र विवक्षितयोरुदासनप्रतिषेधोपासनावश्यकतयोः पूर्ववाक्यार्थयोरुत्तरवाक्यार्थाभ्यां समर्थनमिति मलारूपत्वम् । एवमुत्तरत्रापि यथायथं द्रष्टव्यम् ॥

 यथावा--

 आलोकितात्स्वया ये भवन्ति ते लोकपालभृत एव । ते पुनरलोकिता यदि जननि भवेयुः कपालभृत एव ॥ १५६८ ॥