पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/९८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
88
अलंकारमणिहारे

 अत्र भगवद्विषयकस्तुतिनिन्दाभ्यनुज्ञानयोस्सदसत्फलकयोः प्रकृतयोः स्तौतु निन्द इति तिङन्तशब्दयोः तुलोपाभावहिलोपवतोरप्रकृतयोश्च श्लेषः । तथाहि-- हरिं स्तौतु इत्युपदिशतु जनानामिति शेषः । अस्मिन् उपदेष्टरि पुरुषे कदाऽपि लोपः श्रेयोहानिः न तु दृश्यते नैव दृश्यते मूढान् भगवन्नुतौ प्रवर्तयितुर्न कदाऽपि काचिदपि हानिर्भवति । प्रत्युत श्रेयोऽतिशय एव--

अज्ञानाय तु यो ज्ञानं दद्याद्धर्मोपदेशनम् ।
कृत्स्नां वा पृथिवीं दद्यात्तेन तुल्यं न तत्फलम् ॥

इत्याद्युक्तेः । निन्द हे जनेति शेषः । त्वं भगवन्तं निन्द निन्दतेर्लोण्मध्यमैकवचनम् । इति प्रवदेद्यदि अतः अस्मादेव निन्दाप्रवर्तनवचनात् लोपः हानिः पुरा भवेदेव निकटागाम्येव अव्यवहितोत्तरलक्षणागाम्येव भवति । ‘निकटागामिके पुरा' इत्यमरः । अस्मिन्नर्थे ‘शीघ्रं गच्छ पुरा देवो वर्षति’ इति प्रयोगश्च । भगवन्निन्दनप्रवर्तयितुस्सद्य एव सर्वश्रेयोहानिः संपद्यते इति भावः ॥

यो निन्देत्कमलाकान्तं निन्दयेद्वा पृथग्जनैः ।
न विद्मस्तं महाराज यस्तस्य निरयो भवेत् ॥

इत्युक्तेः ॥

 पक्षे-- हरिं स्तौतु इत्युपदिशतु । अस्मिन् स्तौतु इति पदे तुलोपः तुवर्णलोपः न दृश्यते । लोपविधायकशास्त्राभावात् श्रूयत एवेत्यर्थः । निन्देति प्रवदेद्यदि अस्मिन् निन्देतिशब्दे अतोहिलोपः ‘अतो हेः' इति सूत्रविहितो हिलोपः पुरा भवत्येव अभवदेवेत्यर्थः । ‘पुरि लुङ्चास्मे’ इति पुराशब्दयोगे भूते लट् ।