पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/९७

विकिस्रोतः तः
Jump to navigation Jump to search
पुटमेतत् सुपुष्टितम्
87
श्लेषसरः (२८)

च्छरीरावसान एवास्य निश्श्रेयसावाप्तेर्निरर्गळतया पुनर्भवप्रसक्तेरनवकाशादिति भावः । अग्रे भवदश्चेति चशब्देन स्वतन्त्रप्रपदननिष्ठोऽयं ‘प्रारब्धं परिभुज्य कर्मशकलम्’ इत्युक्तरीत्याऽभ्युपगतप्रारब्धं तच्छरीरावधिकमेवानुभूय ‘प्रक्षीणकमान्तरः' इत्युक्तप्रक्रियया अनभ्युपगतप्रारब्धखण्डफलभोगदशरीरान्तरसंबन्धं धुनोति । ‘न्यासेन क्षपयन्ननभ्युपगतप्रारब्धखण्डं च नः' इत्युक्तेः, न त्वङ्गप्रपदननिष्ठ इव संपूर्णप्रारब्धकर्मफलभोगार्थविद्यारम्भोत्तरकालिकशरीरान्तराण्यप्यनुभवतीति सूचितम् । अग्रे भवद इत्यस्य अग्रे प्रपत्त्युत्तरक्षणमेव भवद इत्यर्थविवक्षायां प्रपन्नोऽसावार्तः, प्राथमिकार्थपक्षे दृप्त इति वैलक्षण्य बोध्यम् ॥

 पक्षे-- यदुपतिमहिळेऽभवत्प्रपदीत्यत्र अभवदितिच्छेदः । भवतीति संबुद्ध्यन्तं पदम् । ननु भवति! पूज्ये! यदुपतिमहिळे! प्रपदि प्रपूर्वकपदधातौ निष्ठातः निष्ठा क्तप्रत्ययः 'क्तक्तवतू निष्ठा’ इत्यनुशासनात् । तस्याः यः त् क्तप्रत्ययसंबन्धितकारः तस्य । हलन्तोऽयं शब्दः । अग्रेभवदश्च क्तप्रत्ययापेक्षया पूर्वस्य धात्ववयवस्य दकारस्य च । अयमपि हलन्त एव । नः नादेशो यद्यभवत्, तदा अयं शब्दः प्रपन्नः भवेत् प्रपन्न इति निष्पद्येत ‘रदाभ्यां निष्ठातो नः पूर्वस्य च दः' इति रेफदकाराभ्यां परस्य निष्ठातकारस्य तत्पूर्वस्यदकारस्य च नत्वानुशासनादिति भावः । अत्र उक्तेऽर्थे को विशयः न कोऽपि संदेह इत्यर्थः ॥

 यथावा--

 उपदिशतु हरिं स्तौत्विति न तुलोपो दृश्यते कदाऽप्यस्मिन् । निन्देति यदि प्रवदेदतोहिलोपः पुरा भवत्येव ॥ ८६७ ॥