पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/९५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
85
श्लेषसरः (२८)

स्वकरधृतेन पवित्रेण दशापवित्रेण अखिलं ग्रहं होमसाधनपात्रविशेषं सर्वान्ग्रहानित्यर्थः । संमार्ष्टि संमार्जनेन संस्करोति । ननु ‘ग्रहं संमार्ष्टि’ इति संमार्जनकर्मणो ग्रहस्यैकत्वे श्रूयमाणेऽपि कथं सर्वान् ग्रहान् संमार्ष्टीत्युक्तमित्यत आह-- इहेत्यादि । विवक्षिता नु ग्रहैकता नो हि इतिच्छेदः । हि यस्मात् इह 'ग्रहं संमार्ष्टि' इति वाक्ये ग्रहैकता ग्रहस्यैकत्वं ग्रहगतैकत्वरूपा संख्या नो विवक्षिता । न विवक्षितेत्यर्थः । नु इत्येतदनुनये 'नु स्यात्प्रश्ने विकल्पार्थेऽप्यतीतानुनयार्थयोः' इति विश्वः । एकत्वस्याविवक्षितत्वात्सर्वान् ग्रहान् संमार्ष्टीति संमार्गाधिकरणोक्तोऽर्थोऽत्रानुसंधेयः । अयं च संमार्गन्यायः जैमिनीयदर्शने तृतीयाध्याये मीमांसितः । तथाहि ज्योतिष्टोमे ‘दशापवित्रेण ग्रहं संमार्ष्टि इति श्रूयते । तत्र संशयः किमेकस्य संमार्गः किं वा सर्वेषामिति । तदर्थं चिन्ता-- किमत्रोद्देश्यगता संख्या विवक्षिता उताविवक्षितेति । यथा 'पशुना यजेत’ इत्यत्र एकत्वश्रुतिबलादुद्देश्यगताऽपि संख्या विवक्षिता, एवमत्राप्युद्देश्यगता संख्या विवक्षिता भवितुमर्हति । तस्मादेकस्यैव ग्रहस्य संमार्ग इति पूर्वपक्षं प्रापय्य पशोरनेनैव वचनेन यागसंबन्धावगमाद्यागं प्रति पशोर्गुणभूतत्वाद्यावद्गुणं प्रधानावृत्त्यभावात्कियता पशुनेति परिच्छेदकाकाङ्क्षायां तत्परिच्छेदकत्वेनैकत्वसंख्या संबध्यत इत्युपादेयगतायास्संख्याया विवक्षितत्वं युक्तम् । ग्रहाणां तु वाक्यान्तरेण यागसंबन्धावगमात् संमार्गवाक्ये, द्वितीयाश्रुत्या संमार्गं प्रति ग्रहस्य प्राधान्यावगमात् यावत्प्रतिप्रधानं गुणस्य संमार्गस्यावर्तनीयत्वात् कियन्तो ग्रहास्संमार्जनीया इत्याकाङ्क्षाया अनुदयादुद्देश्यग्रहगता संख्या न विवक्षिता । तस्मात्सर्वे ग्रहास्संमार्जनीया इति सिद्धान्तितम् ॥