पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/८९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
79
श्लेषसरः (२८)

आदिश्यतेऽनेनेत्यादेशः आदेष्टा प्रशास्ता भवति । ‘एतस्य वा अक्षरस्य प्रशासने गार्गि सूर्याचन्द्रमसौ विधृतौ तिष्ठतः । अन्तः प्रविष्टश्शास्ता जनाना ्ँ सर्वात्मा । एकश्शास्ता न द्वितीयोऽस्ति शास्ता । शास्ता विष्णुरशेषस्य । प्रशासितारं सर्वेषाम्’ इत्यादिप्रमाणात् । आङ्पूर्वकाद्दिशेः करणे घञ्, 'अकर्तरि च कारके संज्ञायाम्' इत्यनुशासनात् । न च विवक्षितादेशकर्तृत्वरूपार्थविरोधश्शङ्क्यः ‘विवक्षातः कारकाणां प्रवृत्तिः' इतिशाब्दिकोक्तनयात्कर्तर्येव करणान्तरनैरपेक्ष्येण साधकतमत्वविवक्षया तथा प्रयोगोपपत्तेः । आदेशमेव विशिनष्टि-- येनेति । येन श्रुतेनेति यावत् । अश्रुतमपि सर्वं स्पष्टं यथा स्यात्तथा श्रुतं भवति । इदमुपलक्षणं श्रुतेन मतेन विज्ञातेन अश्रुतममतमविज्ञातं श्रुतं मतं विज्ञातं भवतीत्यस्य । अत्र ‘उत तमादेशमप्राक्ष्यो येनाश्रुतं श्रुतम्’ इति सद्विद्यावाक्यार्थस्सर्वोऽपि प्रत्यभिज्ञापितः । अत्र ‘येनाश्रुतं श्रुतं भवति’ इत्यत्र ‘कस्मिन्नु भगवो विज्ञाते सर्वमिदं विज्ञातं भवति, आत्मनि खल्वरे दृष्टे श्रुते मते विज्ञाते इदं सर्वं विदितं भवति’ इति मुण्डकबृहदारण्यकवाक्यानुरोधेन येन श्रुतेनेत्याद्यर्थो वर्णितः । येनाश्रुतं श्रुतमित्यनेन उपादानत्वं प्रशासितृत्वार्थकादेशशब्देन चात्मस्वरूपमुक्तम् । तथाचात्मभूतमुपादानं सद्विद्यावेद्यमिति निष्पन्नोर्थः । अन्यत्सर्वं सुगमं ब्रह्ममीमांसाविदामित्यलं प्रपञ्चेन ॥

 पक्षे-- सत्पदविदां साधुशब्दशास्त्रवेतॄणां सः ज्ञेयः । यः पूर्वपरयोः एकः आदेशः भवति ‘एकः पूर्वपरयोः' इत्यधिकारविहितः 'आद्गुणः' । वृद्धिरेचि । अकस्सवर्णे दीर्घः' इति गुणवृद्धिसवर्णदीर्घादिरेकादेशो विद्यते । येन उक्तविधेनादेशेन अश्रुतमपि