पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/८८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
78
अलंकारमणिहारे

 यथावा--

 ज्ञेयस्स सत्पदविदामादेशो भवति पूर्वपरयोर्यः। एको येनाश्रुतमपि सर्वं स्पष्टं श्रुतं भवति ॥

 अत्र सर्वप्रशासितुः परमात्मनः प्रकृतस्य शब्दशास्त्रीयैकादेशस्याप्रकृतस्य च श्लेषः । तथाहि- सः वक्ष्यमाणः अश्रुतश्रुतत्वकारणभूत आदेशः सत्पदविदां ‘सदेव सोम्येदम्' इति श्रुतसद्वस्तुवेतॄणां 'पदं व्यवसितत्राणस्थानलक्ष्माङ्घ्रिवस्तुषु' इत्यमरः । ज्ञेयः ज्ञातुं शक्यः । आदेशसच्छब्दयोरेकार्थकत्वादिति भावः । ज्ञेय इति ज्ञाधातुप्रयोगेण सद्विद्योपसंहारगतं ‘तद्धास्य विजिज्ञौ' इत्येतत्प्रत्यभिज्ञाप्यते । सद्विद्यागतार्थप्रतिपादकत्वादस्य पद्यस्य । यद्वा-- सत्पदविदां सतां ब्रह्मविदां पदं स्थानं पादं वा विन्दन्ति प्राप्नुवन्तीति तथोक्ताः तेषां, विन्दतेः क्विप् । ब्रह्मविदाचार्योपसदनशालिनामेवेत्यर्थः । ‘सर्वं वाक्यं सावधारणम्’ इति न्यायात् । सः पूर्वोक्तप्रकार आदेशः ज्ञेयः न तु केवलापरविद्याविदामनूचानमानिनां स्तब्धानामिति भावः । इदं च श्वेतकेतुर्नामोद्दालकस्य पुत्रो द्वादशवर्षाणि गुरुकुले वसन्नधिगतसाङ्गवेदो महामना अनूचानमानी स्तब्धोऽभ्येत्य ब्रह्मविदग्रेसरस्योद्दालकस्य निजपितुस्संनिधिं तेन च ‘यन्नु सोम्येदं महामना अनूचानमानी स्तब्धोऽस्युत तमादेशमप्राक्ष्यो येनाश्रुतं श्रुतं भवति’ इति पृष्टस्तदपरिज्ञानेन विगळितचित्तसमुन्नतिस्तदुपसदनेनैव तादृशमादेशं ज्ञातवान्नत्वन्यथेत्येतदभिसंधायोक्तमित्यवगन्तव्यम् । आदेशमेव विशिनष्टि-- भवतीत्यादिना । यः पूर्वपरयोः पूर्वस्य चतुर्मुखादेः परस्य अर्वाचीनस्यास्मदादेश्च एकः अद्वितीयः आदेशः