पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/८६

विकिस्रोतः तः
Jump to navigation Jump to search
पुटमेतत् सुपुष्टितम्
76
अलकारमणिहार

कमादाय ‘अस्य स्थाने अस्कारः अस्कारः शकन्ध्वादित्वात्पररूपम्’ इति कैयटेन विवृतम् । अस्य प्रायशब्दान्त्यस्य ह्रस्वाकारस्य अस्कारः असितिकरणं स एव अस्कारः । अ अस्कार इत्यत्र सवर्णदीर्घमाशङ्क्य शकन्ध्वादित्वात्पररूपमित्युक्तमिति कैयटग्रन्थाभिप्रायः ॥

 यथावा--

 चित्तं परं प्रपद्य प्रायश्चित्ती बुभूषति तरां यः । प्रायेणान्ते सयुजा पूर्वं स्वन्तेन तेन भवितव्यम् ॥

 अत्र भगवत्प्रपित्सुचेतनस्य प्रकृतस्य चित्तशब्दस्याप्रकृतस्य च श्लेषः । चित् तं इतिच्छेदः । यः चित् चेतनः तं 'अहं त्वा सर्वपापेभ्यो मोक्षयिष्यामि’ इत्यादिना शरणागत जनसकलकलुषनिर्धूननकृतप्रतिज्ञतया प्रसिद्धम् । परं ब्रह्मविदाप्नोति परम्’ इति ब्रह्मवित्प्राप्यतया श्रुतं परमात्मानं प्रपद्य शरणमुपेत्य प्रायश्चित्ती बुभूषति तरां अतिशयेन प्रायश्चित्तवान्भवितुमिच्छति । ‘अनादेर्निस्सीम्नो दुरितजलधेर्यन्निरुपमं विदुः प्रायश्चित्तं रघुयदुधुरीणाशयविदः' इति प्रपदनस्य निरुपमप्रायश्चित्तत्वोक्तेरिति भावः । पूर्वं आदौ स्वन्तेन शोभनः अन्तो निश्चयो यस्य तथोक्तेन दृढनिश्चयेनेत्यर्थः । बृहस्पतिप्रमुखैरप्यकम्पनीयमहाविश्वासशालिनेति भावः । 'अन्तोऽस्त्री निश्चय नाशे स्वरूपेऽग्रेऽन्तिकेऽन्तरे' इति रत्नमाला । तेन चेतनेन अन्ते देहावसाने सयुजा शरण्यसमानापहतपाप्मत्वादिगुणकेनेत्यर्थः । ‘युज्यत इति युक्छब्दो गुणपरः । धर्मिणि हि गुणस्संबध्यते । समानगुणकस्सयुक्’ इति महासिद्धान्ते व्यासार्याः । यद्वा--