पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/८४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
74
अलंकारमणिहारे

 यथावा--

 प्रायस्सत्वं चित्ते पर इह यद्येकदास्थितोऽवसितौ । कृष्ण तदेव समस्तं प्रायश्चित्तं भवेन्न संदेहः ॥ ८६० ॥

 अत्र प्रस्तुतभगवद्ध्यानरूपप्रायश्चित्तस्य अप्रस्तुतप्रायश्चित्तशब्दस्य च श्लेषः । तथाहि-- पर इहेत्यत्र परः इह इति छेदः । हे कृष्ण! परः ‘अक्षरात्परतः परः’ इत्याद्युक्तरीत्या सकलचेतनविलक्षणस्सर्वोत्तरः सः ॥

सकृत्स्मृतोऽपि गोविन्दो नृणां वर्षशतैश्चितम् ।
पापराशिं दहत्याशु तूलराशिमिवानलः ॥

इत्याद्युक्तरीत्या सकललोककलुषविध्वंसनपटीयस्तया प्रसिद्धः त्वं इह अस्मिन् लोके चित्ते चेतसि अवसितौ । शरीरावसाने एकदा जातुचिदपि वा न तु सर्वदेति भावः । प्रायः सान्तमव्ययं भूम्नि ‘प्रायो भूम्नि' इत्यव्ययेष्वमरः । बहुश इत्यर्थ‌ः । यदि स्थितः स्मृतश्चेदित्यर्थः । तदेव तदवस्थानमेव समस्तं सर्वं प्रायश्चित्तं निष्कृतिः भवेत् । प्रायश्चित्तशब्दश्च रूढ्या योगेन च पापनिवर्तनक्षमं धर्ममाचष्टे । प्रायश्चित्तशब्दः पापक्षयार्थे नैमित्तिककर्मविशेषे रूढ इत्याहुस्सांप्रदायिका निबन्धनकृतः । योगस्त्वङ्गिरसा दर्शितः--

प्रायो नाम तपः प्रोक्तं चित्तं निश्चय उच्यते ।
तपो निश्चयसंयुक्तं प्रायश्चित्तमिहोच्यते ॥

इति । अनुष्ठितेन द्वादशवार्षिकादिना अवश्यं पापं निवर्तत इति विश्वासयुक्तं व्रतानुष्ठानलक्षणं तपः प्रायश्चित्तमिति तदर्थः ।