पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/८३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
73
श्लेषसरः (२८)

अप्रत्ययः नञत्र विरोधे विरुद्धज्ञानं नानात्वधीरिति यावत् । भवति चेत् । भवतीत्युत्तरवाक्यादपकृष्यते । तस्य भव एव संसार एव भवति ।

यदेवेह तदमुत्र यदमुत्र तदन्विह ।
मृत्योस्स मृत्युमाप्नोति य इह नानेव पश्यति ॥

इति श्रुत्युक्तरीत्या परमात्मनि भेदद्रष्टुर्मृत्युशब्दितसंसारप्राप्तिरेव भवतीत्यर्थः । "यदेव परमात्मतत्त्वमत्र लोकेऽहमित्यनुसंधीयमानतयाऽऽत्मभूतं तदेव लोकान्तरस्थानामप्यात्मभूतं, ततश्चात्मभेदो नास्तीत्यर्थः । इह परमात्मनि भेदमिव यः पश्यति सः संसारात्संसारं प्राप्नोति” इति श्रुत्यर्थो वर्णित उपनिषद्भाष्ये । अघवतः एवं विरुद्धज्ञानमूलभूतपाप्मवतः अस्य जनस्य भावः स्थितिः स्वभावः अभिप्रायो वा ‘भावस्सत्तास्वभावाभिप्रायचेष्टात्मजन्मसु' इत्यमरः । साध्वीं परब्रह्मध्यानैकतानतया श्रेयसीं वृद्धिं प्राप्तः कथं भवेत् । यद्वा-- अस्य साध्वीं वृद्धिं प्राप्तो भावः कथं भवेदिति योजना । साध्वीं वृद्धिं प्राप्तः अपरिच्छिन्न इति यावत् । भावः विभूतिः नित्यविभूतिरित्यर्थः । 'भावो बुधे विभूतौ च' इति शेषः । इदृशस्योक्तविधं भाग्यं दुर्लभमिति भावः ॥

 पक्षे-- भुवि भूधातौ अप्प्रत्ययः ‘ॠदोरप्' इति विहितः अप् इत्याकारकः प्रत्ययः भवति चेत् भवः स्वयमेव भवात भव इति हेत्वन्तरनिरपेक्षमेव निष्पद्यत इत्यर्थः । अस्य भूधातोः अघवतः घेत्युत्सृष्टानुबन्धस्य घञो ग्रहणम् । अविहितघञ्प्रत्ययस्य सत इत्यर्थः । साध्वीं वृद्धिं ‘अचो ञ्णिति' इति शास्त्रविहितां ञिन्निमित्तां वृद्धिं प्राप्तः भाव इति कथं भवेत् । घञभावे कथमेवं रूपं निष्पद्येतेत्यर्थः ॥

 ALANKARA II
10