पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/७९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
69
श्लेषसरः (२८)

श्रीसंबन्धिन्याः, लक्ष्मीकटाक्षलब्धाया वा । अस्मिन्नर्थे लक्ष्म्या इति पञ्चमी वा । लब्धेति शेषः । श्रियः संपदः । श्रियो लक्ष्म्या इति वा योजना । अर्थस्तु पूर्ववदेव । कल्पान्तगतत्वेऽपि संवर्तसमयभाक्त्वेऽपि । ह्रस्वः अन्तः स्वरूपं यस्य तत्तथोक्तं, सामान्ये नपुंसकं, तस्य भावः ह्रस्वान्तत्वं नश्वरत्वमिति यावत् । ‘अन्तस्स्वरूपे निकटे प्रान्ते निश्चलनाशयोः' इति हेमचन्द्रः । ‘अन्तोऽस्त्री निश्चये नाशे स्वरूपेऽग्रेऽन्तिकेऽन्तरे' इति रत्रमाला च । न स्यात् । लक्ष्मीसंबन्धिनी तत्कटाक्षलब्धा वा संपत्तिः कल्पान्तेऽपि न नश्वरी स्यादित्यभिप्रायः । इतरप्प्रसक्ता इतरासु देवतासु स्थिता इतराभ्यो देवताभ्यो लब्धा वा ‘सर्वनाम्नो वृत्तिमात्रे’ इतीतराशब्दस्य पुंवद्भावः इतरप्प्रसक्तेत्यत्र पकारस्य 'अनचि च' इति द्वित्वमर्थान्तरे शब्दावैरूप्यायावश्यकम् । यद्वा--कल्पति कल्पप इव तरेति तरप उत्सृष्टानुबन्धस्य ग्रहणे अर्थान्तरेऽपि पकारस्य न द्वित्वावश्यकतेति बोध्यम् । सा श्रीरित्यर्थः । बह्वी भान्त्यपिवा अविमर्शावसरे अपरिच्छिन्नतया भासमानाऽपि वा अन्ते निर्णयावसरे ह्रस्वा आशुविनाशिनीति यावत् । भवति नियतं नूनं भगवल्लक्ष्म्यतिरिक्तदेवतासंबन्धिनी तत्प्रसादासादिता वा संपत् अविमर्शदशायामनन्ततया भासमानाऽपि तत्त्वनिष्कर्षसमये परिमितैव ज्ञायत इति भावः ।

 पक्षे-- कल्पान्तगतत्वे कल्पः कल्पप्प्रत्ययः तस्य अन्तगतत्वे स्वस्मात्परत्रावस्थाने सति । इदमुपलक्षणं तरबादिपरकत्वस्य । अपिशब्दो भिन्नक्रमः श्रिय इत्यत्र संबध्यते । लक्ष्म्या लक्ष्मीशब्दस्य, अर्थगतस्य स्त्रीत्वस्य शब्दे आरोप इत्यसकृदवोचाम । एवमग्रेऽपि । श्रियोऽपि श्रीशब्दस्य च । ह्रस्वान्तत्वं न