पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/७८

विकिस्रोतः तः
Jump to navigation Jump to search
पुटमेतत् सुपुष्टितम्
68
अलंकारमणिहारे

इत्यादिप्रमाणादिति भावः । परत्र पदे परस्मिन् पदे तु परं 'ब्रह्मविदाप्नोति परम्' इति श्रुतं परमपुरुषमेव तुल्यं मम सदृशं अवैमि जानामि 'निरञ्जनः परमं साम्यमुपैति' इति श्रुत्या परमसाम्यस्यावेदितत्वादिति भावः ।

 पक्षे-- ननु च इतः इति छेदः । इतः अस्मिन् बुद्धिस्थे सार्वविभक्तिकस्तसिः । अपूर्वे नञ्पूर्वे इत्यर्थः । अकारेण लुप्तनकारस्य नञो विवक्षा । तत्पुरुषे च तत्पुरुषसंज्ञके च समासे न तु यस्मिन्कस्मिंश्चित्समासे, अहं त्वां त्वामित्युत्सृष्टानुबन्धस्य क्त्वाप्रत्ययस्य ग्रहणम्, ‘आनेमुक्’ इत्यादौ शानजादेरिवेति भावः । क्त्वाप्रत्ययमित्यर्थः । न्यस्तवान् सन् इह अस्मिन् क्त्वाप्रत्यये तत्स्थाने इत्यर्थः । न तु ल्यं इति पदत्रयम् । ल्यं ल्यमित्युत्सृष्टानुबन्धस्य ल्यपो निर्देशः 'मतौ बह्वचः' इत्यादौ मतुवादेरिवेति भावः । न तु पश्यामि नैव पश्यामि ‘समासेऽनञ्पूर्वे क्त्वो ल्यप' इत्यनञ्पूर्वसमास एव क्त्वो ल्यब्विधानात् अकृत्वेत्यादौ नञ्समासे ल्यपोऽदर्शनादिति भावः । परत्र पदे नञतिरिक्तशब्दपूर्वकसमासस्थले तु ल्यं अवैमि 'अलंकृत्य नमस्कृत्य’ इत्यादौ ल्यपो दर्शनादिति भावः ।

 यथावा--

 कल्पान्तगतत्वेऽपि ह्रस्वान्तत्वं श्रियो न लक्ष्म्यास्स्यात् । भान्त्यपि वाऽन्ते ह्रस्वा नियतं बह्वीतरप्प्रसक्ता सा ॥ ८५७ ॥

 अत्र लक्ष्मीगतायाः तत्कटाक्षलब्धाया वा संपदः प्रकृतायाः श्रीलक्ष्म्यादिशब्दानां चाप्रकृतानां श्लेषः । तथाहि-- लक्ष्म्याः