पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/७७

विकिस्रोतः तः
Jump to navigation Jump to search
पुटमेतत् सुपुष्टितम्
67
श्लेषसरः (२८)

स्तराध्याये गानादिति भावः । भगवद्विभूतित्वादेव द्वंद्वस्यात्र भगवद्रूपतोक्तिः । ‘सामासिकः समाससमूहः । तस्य मध्ये द्वंद्वसमासोऽहम् । स हि पूर्वोत्तरान्यपदार्थप्रधानेभ्योऽव्ययीभावतत्पुरुषबहुव्रीहिभ्योऽप्युभयपदार्थप्रधानतयोत्कृष्टः' इति भाष्यतात्पर्यचन्द्रिकयोस्स्पष्टम् । एतदभिप्रायेणैव ह्यत्रोभयपदार्थप्रधानतामधुरमित्युक्तम् । द्वंद्वं पुनर्विशिनष्टि-- अनन्तगिरिकृतोत्कर्षमिति । शेषाचले लब्धोत्कर्षमित्यर्थः । पक्षे अनन्तगिरि पतञ्जलिवाचि महाभाष्ये लब्धोत्कर्षम् । अत्र अनन्तस्य भगवतो वासुदेवस्य गिरि गीतारूपायां वाचि कृतोत्कर्षं उदाहृतप्रमाणानुसारेणोत्कर्षितं, अत एव भगवद्रूपमित्यप्यर्थोऽनुसन्धेयः । भजामहे ॥

 यथवा--

 ननु चेतस्तत्पुरुषेपूर्वे त्वां न्यस्तवान् समासेऽहम् । पश्यामीह न तुल्यं परत्र तुल्यं पदे परमवैमि ॥ ८५६ ॥

 अत्र कविना स्वचेतसः क्त्वाप्रत्ययस्य च श्लेषो वर्ण्यते तथाहि-- ननु चेत! हे हृदय! अहं त्वां पूर्वे अखिलजगत्कारणे । स चासौ पुरुषस्तत्पुरुषः तस्मिन् सर्वेश्वरत्वादिना सकललोकविदिते परमपुरुषे न्यस्तवान् विन्यस्तात्मरक्षाभरस्सन्निति यावत् । समासे सम्यगुपविशामि निर्भरतया सुखी संवृत्तोऽस्मीत्यर्थः । संपूर्वकादासेः कर्तरि लडुत्तमैकवचनम् । अत एव इह अस्मिन् लोके तुल्यं मम समं जनं कमपि न पश्यामि ॥

सत्कर्मनिरताश्शुद्धास्सांख्ययोगविदस्तथा ।
नार्हन्ति शरणस्थस्य कलां कोटितमीमपि ॥