पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/७६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
66
अलंकारमणिहारे

घटकपदानां चार्थान्तर्भावेणैकार्थीभाव आवश्यकः, ‘समर्थः पदविधिः' इति परिभाषितत्वात् ‘चार्थे द्वंन्द्वः' इत्युक्तेश्च । न चेतरेतरान्वये परस्परनिरपेक्षाणामेकार्थीभावस्संभवति, येन समुच्चयान्वाचयावेकार्थीभावान्तर्भूतौ स्याताम् । अतश्च इतरेतरयोगे समाहारे च परस्परसाहित्यसत्त्वात्समासो भवति न तु समुच्चयान्वाचययोः। परं त्वितरेतरयोगे साहित्यं विशेषणं द्रव्यं विशेष्यं, समाहारे तु साहित्यं प्रधानं द्रव्यं विशेषणमिति विवेक्तव्यम् । अनयोरपि साहित्यप्रधानकसमाहारापेक्षया वक्ष्यमाणरीत्या द्रव्यरूपोभयपदार्थप्रधानक इतरेतरयोगो ज्यायानित्याशयेनोक्तमितरेतरयोगोज्ज्वलमितीति ॥

 'परस्परनिरपेक्षस्यानेकस्यैकस्मिन्नन्वयस्समुच्चयः । अन्यतरस्यानुषङ्गिकत्व अन्वाचयः । मिळितानामन्वय इतरेतरयोगः । समूहस्समाहारः’ इत्याहुः । उभयपदार्थप्रधानतामधुरं उभौ च तौ पदार्थौ लक्ष्मीनारायणात्मकौ तयोः प्राधान्येन उभयविभूतिशेषित्वव्यापित्वेश्वरत्वादौ समप्रधानतया रमणीयम् ॥

अस्या मम च शेषं हि विभूतिरुभयात्मिका ।
यथा मया जगद्व्याप्तं स्वरूपेण स्वभावतः ।
तया व्याप्तमिदं सर्वं नियन्त्री च तथेश्वरी ॥

इत्यादीनि प्रमाणान्यत्रानुसंहितानि ॥
पक्षे-–क्रियान्वये वर्तिपदार्थयोरुभयोरपि प्राधान्येन मनोहरमित्यर्थः । 'उभयपदार्थप्रधानो द्वन्द्वः’ इति हि प्राचां प्रवादः । भगवती च भगवांश्च भगवन्तौ ज्ञानादिषाड्गुण्यपूर्णौ भगवन्ताविति रूपं यस्य तत् उभयोरप्युक्तगुणपरिपूर्तेस्तथोक्तिः । द्वंद्वं मिथुनम् । पक्षे-- समासेषु प्रधानभूतभगवद्विभूतितया परिगणितं द्वंद्वसमासमित्यर्थः । 'द्वंद्वस्सामासिकस्य च' इति विभूतिवि-