पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/७२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
62
अलंकारमणिहारे

 यथावा--

 प्रददाति निरुपसर्गस्स्वजुषे विश आत्मने पदं देवः । स च तत्र निविशमानो भवति परस्मै पदाय योऽभ्यर्हेत् ॥ ८५४ ॥

 अत्र प्रकृतस्य ब्रह्मजुषो मनुजस्य अप्रकृतस्य विशधातोश्च श्लेषः । तथाहि-- यः पुमान् परस्मै पदाय परमं स्थानं प्राप्तुं 'क्रियार्थ’ इत्यादिना चतुर्थी । अभ्यर्हेत् योग्यो भवेत् । तस्मै स्वजुषे आत्मानं सेवमानाय विशे मनुजशरीरकाय आत्मने चेतनाय । शरीरवाचकानां शब्दानां शरीरिपर्यन्तताया आकृत्यधिकरणन्यायसिद्धतया विशे आत्मने इत्यनयोस्सामानाधिकरण्यम् । 'द्वौ विशौ वैश्यमनुजौ' इत्यमरः । देवः भगवान् निरुपसर्गः इयत्पदमेतस्मै कथं देयमित्युद्वेगं दूरतः परिहरन्निति भावः । पदं तदर्हं दिव्यं स्थानं प्रददाति । स च स पुमानपि तत्र परस्मिन् पदे निविशमानो भवति । भगवदनुगृहीतनिरवधिकनिश्श्रेयससाम्राज्यस्तत्रैव तत्कैंकर्यैकरतिर्वसतीति भावः ।

 पक्षे-- यः ‘विश प्रवेशने’ इति पठितो धातुः परस्मैपदाय ‘लः परस्मैपदम्’ इति विहिताय परस्मैपदसंज्ञकाय लादेशाय अभ्यर्हेत् योग्यस्स्यात् विशधातोः परस्मैपदिषु पठितत्वादिति भावः । तस्मै स्वजुषे स्वसमभिव्याहारभाजे विशे विशधातवे देवः देवयति धात्वर्थं द्योतयतीति देवः दीव्यतेर्णिजन्तात्पचाद्यच् उपसर्गाणां द्योतकत्वाद्देव इत्युक्तिः । निः नीत्याकारकः उपसर्गः ‘उपसर्गाः क्रियायोगे’ इत्यनुशिष्टो निपातविशेषः । आत्मनेपदं ‘तङानावात्मनेपदम्’ इति विहितं शानजाख्यमात्मनेपदसंज्ञकं प्रत्ययं प्रददाति ‘नेर्विशः' इत्यनेन नीत्युपसर्गा-